________________
धात्वधिकारे कृप्रकरणम् ।
४२९
इत्यादेः सिद्धत्वात् । तथाहि - नित्यं सम्प्रसारणम्, आतो लोपे कृते अकृते प्रसङ्गित्वात् । आल्लोपस्तु कृते च सम्प्रसारणे यद्यपि पूर्वत्वेन बाध्यते तथापि "यस्य च निमित्तं लक्षणान्तरेण न विहन्यते तदपि नित्यम्" इति नित्य एव । द्वयानित्ययोः परत्वादालोपः, ततः सम्प्र• सारणं, तत इयङ्ङुवङौ प्रसक्तौ आतो लोपस्य स्थानिवत्त्वान्न भविष्यतः। न च अनादिष्टादचः पूर्वश्वं नास्तीति वाच्यम्, स्थानिद्वारकस्य सत्त्वात् ।
यत्विह कैयटेनोक्तं शास्त्रीयकार्यसिद्धये स्थानिवद्भावो विधीयते न त्वनादिष्टादचः पूर्वत्वे लौकिके इति, तदापाततः, "अचः परस्मिन्" ( पा०सु०१-१-५७ ) इत्यतिदेशस्याशास्त्रीयतया तस्यैव "स्थानिवत्" ( पा०सु०१ - १ - ५६) सूत्रेणातिदेशः सम्भवतीति "न पदान्त" (पा०सू० १-१-५८) सूत्रीयसवर्णग्रहणाद्युपष्टम्भेन प्रागेव वर्णितत्वात् । किञ्चा कारलोपस्य आभीयत्वेनासिद्धत्वान्न दोषः । न चैवं 'जुहुवतुः' 'जुहुवुः' अत्राप्युवङ् न स्यादिति वाच्यम्, स्थानिद्वारकस्य अनादिष्टादचः पूर्वत्वस्य आभीयासिद्धत्वस्य च अनित्यत्वेनेहाप्रवृत्तेः । अथवा "स. म्प्रसारणाच्च” “एङः पदान्तातु" (पा०सू०६-१-१०८, १०९) इत्यत्र 'एङः' इति योगो विभज्यते । सम्प्रसारणादेङि परे पूर्वपरयोः पूर्व एकादेशो भवतीति । सम्प्रसारणाच्वेत्येव सिद्धे शापनार्थमिदम्-यत्र सम्प्रसारणात्पर एड् सम्भवति तत्र अनैमित्तिकत्वेनान्तरङ्गमप्यात्वमकृत्वा सम्प्रसारणं कर्तव्यमिति । तेन 'जुहुवतुः' इत्यत्र एङन्तादेव लिटि विहिते सम्प्रसारणं पूर्वत्वम् । ततश्च न स्थानिवत्त्वं नाप्यसिद्धत्वमिति सिद्धमिष्टम् । 'मह' 'प्रह्नः' इत्यत्र तु आकारान्तलक्षणः प्रत्ययो असत्यात्वे कर्तुमशक्यः । अतः पूर्वमात्वम् । ततः प्रत्ययः, आल्लोपः, सम्प्रसारणं, स्थानिवद्भावादसिद्धत्वाद्वा इयकुवङोरभावः । तस्मान्मास्तु वार्त्तिकमिति चेत् ? सत्यम्, इत्थं प्रत्याख्यातमेव भाष्ये, किन्तु अस्ति वार्त्तिकस्योतिसम्भवः । "आभात्" ( पा०सु०प०६-४-२२) सुत्रप्रत्याख्यानपक्षे हि स्थानिवत्त्वमेव शरणम् । तत्र च स्थानिद्वारकमनादिष्ठादचः पूर्वत्वमाश्रयणीयं तथा नित्यमिति ज्ञापयितुमिदं वा• र्त्तिकमिति । एतत्प्रत्याख्यातुं प्रवृत्तो भाग्यकारोऽपि स्थानिवद्भावमु. पन्यस्य दूषयित्वा असिद्धतां शरणीकुर्वन् स्थानिद्वारिकायाः अनादिष्टादचः पूर्वतायाः काचित्कतां ध्वनयति । तत्फलन्तु "मचः परस्मिन्" (पा०सू०१-१-५७) इति सूत्रे पवावोचामेत्यलं बहुना ।
सुपि स्थः (पा०सु०३-२-४) ॥ सुबन्ते उपपदे तिष्ठतेर्धातोः का प्रत्ययः स्यात् । समस्थः । विषमस्थः । अत्र 'सुपि' इति योगो विभ