________________
१९४
शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे प्रथमान्हिके
ज्ञापकमति, किन्तु सामान्यापेक्षम् । सर्व एकदेशवाची कालेन समस्यते इति ज्ञाप्यशरीरम् । तेन 'मध्यरात्रः' 'उपारताः पश्चिमरात्र. गोचराः' इत्यादि सिद्धम् । न चोकायवसामानाधिकरण्येन सायाहमध्यरात्रादेर्निर्वाहः शङ्ख्यः, "अहःसवैकदेश" (अष्टा०सू०५-४-८७) इत्यादिना विहितस्याचः "अहोऽह्न एतेभ्यः" (अष्टासु-५-४-८८) इत्यहादेशस्य चैकदेशिसमासं विनाऽनुपपत्तेः। कथन्तर्हि 'दिनमध्यः' 'रात्रिमध्यः' इति ज्ञापकसिद्धं न सर्वत्रेत्यदोषः। ___ अर्ध नपुंसकम् (अष्टा०सू०२-२-२)। नित्यक्लीयोऽर्धशब्द पकद्रव्ये विद्यमानेनावयविवाचिना सह प्राग्वत् ।
भित्तं शकलखण्डे वा पुस्योऽध समेऽशके । (अको०१-३-१६) इत्यमरः । इह काकाक्षिन्यायेन वापुंसीति पूर्वोत्तराभ्यां सम्बध्यते । तत्र शकलखण्डे इति नपुंसकत्वस्य रूपभेदानिर्णये पुंस्त्वविकल्पाद. स्त्रियामिति फलितम् । न च स्त्रीलिङ्गरूपमेव किन्न स्यादिति वाच्यम, भिन्नलिङ्गानां न द्वन्द्व इति तेन परिभाषितत्वात् । शकलश्चास्त्रीति निर्दे शेनैव निर्णयात् । 'अर्धः' इत्यत्र तु रूपभेदात्पुंस्त्वावगतो सत्यां वापुं. सीति तद्विकल्पनाविशेषास्त्रीनपुंसके लभ्यते । तथा चार्धशब्दस्त्रि. ग्विति फलितोऽर्थः। समेऽशके तु अर्ध नित्यनपुंसकमित्यर्थः । अर्ध पिप्पल्याः अर्धपिप्पली । “एकविभक्तावषष्ठ्यन्तवचनम्" (का०वा०) इति पिप्पलीशब्दस्यानुपसर्जनत्वान्न हस्वः । एकाधिकरणे किम् ? अर्ध पिप्पलीनाम् । कथं तर्धपिप्पल इति १ अर्धानि पिप्पलीनामिति विग्रहे मा भूत् । खण्डसमुच्चये तु भविष्यति, अर्धपिप्पली च अर्धपिपली चेत्यादि विग्रहात । एकदेशिनेति किम् ? अर्ध पशोर्देवदत्तस्य । देवदत्तोऽत्र स्वामी न त्ववयवीति न तेन समासः । पशुना तु स्यादेवअर्धपशुर्देवदत्तस्येति । देवदत्तस्वामिकं पशोरर्धमित्यर्थः । नपुंसक किम् ? प्रामार्धः । नगराधः । अर्धमिति निर्देशादेव सिद्धे नपुंसकग्रहणं स्त्रे लिगनिर्देशो न विवक्षित इति ज्ञापयितुम्। तेन "तस्येदम्" (अष्टा० सू०४-३-१२०) इति लिङ्गत्रयेऽपि भवति । एतत्सूत्रं "परवल्लिङ्गम्" (अष्टा० २-४-२६) इत्यत्र भाज्ये प्रत्याख्यातम् । तथाहि, 'अर्धपिप्पली' इति कर्मधारयेण सिद्धम् , समुदाये दृष्टाः शब्दा अवयंवेऽपि वर्तन्ते इति न्यायात् । समप्रविभागादन्यत्र हि तवाप्येषैव गतिः । अर्धाहारः, अर्ध. हारः, अर्धजरतीयम् , अर्धवैशसम् , अर्धोक्तम् , अर्धविलोकितम् , इत्यादिदर्शनात् । न च समप्रविभागे षष्ठीसमासं बाधितुमिदं सूत्रमिति वाच्यम, षष्ठीसमासस्यापीष्टत्वादिति । तथाच कालिदासः प्रायुत