________________
७८ शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके-- २९) इत्यत्रोपसङ्ख्यानम् । तस्मिश्च विषये "पूर्ववत्सनः" (अष्टा०स०१३-६२) इत्येव सिद्धम् । विषयान्तरेऽनेन विधीयते स्मरतेस्तु अप्राप्त एव विधानम् । धर्म जिज्ञासते, शुश्रूषते, सुस्मूर्षते, दिदृक्षते । __ नानोः (अष्टा सू०१-३-५८)। अनुपूर्वाज्जानातेः सन्नन्तादात्मा नेपदं न स्यात् । पुत्रमनुजिज्ञासति । अनोः किम् ? धर्म जिज्ञासते । पूर्वसूत्रेण प्राप्तस्यायं निषेधः । “अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" इति न्यायात् । तथा च सकर्मकस्यैव प्रतिषेध इति फलितम । पूर्वसूत्रस्य सकर्मकविषयत्वादकर्मकात्तु “पूर्ववत्सनः" (अष्टा०सू० १-३-६२) इत्यात्मनेपदं भवत्येव । “अकर्मकाच्च" (अष्टा०स०१-३-३५) इति सूत्रेण केवलाद्विधानात् । (१)औषधस्यानुजिज्ञासते औषधन प्रवर्तितुमिच्छनीत्यर्थः।
प्रत्याभ्यां श्रुवः (अष्टा०सू०१-३-५९)। आभ्यां श्रुवः सन्नन्ता. दात्मनेपदं न स्यात् । प्रतिशुश्रूषति, आशुश्रूषति । उपसर्गग्रहणं चेदम् , परस्परसाहचर्यात् । तेनेह न-देवदत्तं शुश्रूषते । “लक्षणेत्थम्भूत" (अष्टा सू०१-४-९४) इत्यादिना प्रतिः कर्मप्रवचनीयो नोपसर्गः।
शदेः शितः (अष्टा सू०१-३-६०)। शितःप्रकृतिभूतो यः शदि. स्तस्मादात्मनेपदं स्यात् । शीयते, शीयेते, शीयन्ते । शितः किम् ? शत्स्यति, अशत्स्यत् । “शेषात्कतरि" (अष्टा०सू०१-३-७८) इति परस्मैपदम् । __ म्रियतेलुंलिङोश्च (अष्टा०सू०१-३-६१) । शितो लुलिङाश्च प्रकृतिभूतो यो म्रियतिस्तत एवात्मनेपदं स्थानान्यस्मात् । तत्र शित्प्र. कृतित्वं पूर्ववच्छिदुत्पत्तेः प्रागेव योग्यतया बोध्यम् । लुङ्लिङोस्तु सत्यामेवोत्पत्तौ बोध्यम् । म्रियते, म्रियताम् , अम्रियत, अमृत, मृषीष्ट । नियमः किम् ? ममार, मासि, मरिष्यति, अमरिष्यत् । ङित्वं तु स्वरार्थम् । मा हि मृत । लुङि "तास्यनुदात्तेत्" (अष्टा०स०६-१-१८६) इति डिल्लक्षणः सार्वधातुकनिघातः । “हि च' (अष्टा०सू०८-१-३४) इति तिङि निघातप्रतिषेधः ।
पूर्ववत्सनः (अष्टा० सू०१-३-६२)। सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । येन निमित्तेन सनः प्रकृतेरात्मनेपदं वि. धीयते तदेव निमित्तं सना व्यवहितं सदप्यात्मनेपदं प्रवर्त्तयतीत्यर्थः । इह सूत्रे "तेन तुल्यम्" (अष्टा सू०५-१-११५) इति तृतीयान्ताद्वतिर्न तु पञ्चम्यन्तात, लक्षणाभावात् । यथा च 'ब्राह्मणेन तुल्यं वैश्यादधीते'
(१) "झोविदर्थस्यकरणे" (अप्रा०सू०२-३-५१) इत्यनेन षष्ठी।