________________
विधिशषप्रकरणे आत्मनेपद नियमप्रकरणम् ।
"
इत्यत्र ब्राह्मणादिवेति गम्यते तथेहापि पूर्वस्मादिवेति गम्यते । ब्राह्मणापादानकेध्ययने ब्राह्मणशब्दस्य लक्षणया ब्राह्मणापादानकाध्ययनसादृश्यं वैश्यापादानकाध्यापनमिति क्रियासाम्यं दृष्टान्ते निर्वाह्यम् । अन्यथा घतिप्रत्ययायोगात् । यदाह - "तेन तुल्यं क्रिया चेतु" (अष्टा०सु०५१-११५) इति । एवञ्च प्रकृतेऽपि आत्मनेपदभावनस्य तुल्यत्वं बोध्यम् । तदपि निमित्तस्य तुल्यत्वात्तद्वारकमिति फलितार्थः । एतेन 'शब्दो ऽनित्यः, कृतकत्वात् । घटवत्' इत्यादि व्याख्यातम् । तत्रापि भवनक्रियायाः साम्यात् । अन्यथा वत्प्रत्ययासाधुतापत्तेः । अत एवानि. त्यो भवितुमर्हतीति प्राञ्चः प्रयुञ्जते । साध्यपदस्य ज्ञाने लक्षणया शानयोः साम्यं वाक्यार्थ इति वास्तु । सर्वथापि शब्दघटयोः साम्याथे न तु शाब्दमिति दिक् । असिसिषते, शिशयिषते निविविक्षते, बुभुक्षते, इत्यादि । इह तु न भवति - शिशत्सति, मुमूर्षति । न ह्येषा शदिम्रियतिव्यक्तिः शितः प्रकृतिः अतो नात्मनेपदनिमित्तम् । कृते हि सनि सन्नन्तमेव शितः प्रकृतिः । 'शिशयिषते' इत्यादौ तु प्रकृतौ ङिवानपायान्निमिचातिदेशः सम्भवत्येवेति वैषम्यात् । नन्वेवं 'अनु. चिकीर्षति' इत्यत्रातिप्रसङ्गः । गन्धनादेरर्थस्य ञित्वस्य चात्मनेपदनिमि त्तस्यातिदेशापत्तेरिति चेन्न । “अनुपराभ्यां कृञः” (अष्टा०सु०१-३-७९) इति वचनपर्यालोचनया अनुपूर्वकत्वाभावविशिष्टस्यैवात्मनेपदनिमिप्तताध्यवसायात् । अस्तु वा प्राधान्यात्कार्यस्यैवातिदेशः प्राक्सनो येभ्य आत्मनेपदं दृष्टं तेभ्यः सन्नन्तेभ्योपि भवतीति । न चैवं 'शिशत्सति' 'मुमूर्षति' इत्यत्रातिप्रसङ्गः “शदेः शितः” (अष्टा०सू०२-३-६०) "म्रियतेर्लुङ्· लिङोश्च" (अष्टा०सू०१-३-६१ ) इति सूत्रद्वयेऽपि सनो नेत्यनुवर्त्य वाक्यभेदेन सन्नन्तान्निषेधात् । 'जुगुप्सते' इत्यादौ तु यद्यप्ययमतिदेशो न प्रा. प्नोति । नित्यसम्न्नन्तततया प्राक् सन आत्मनेपदादर्शनात् । तथापि "अनुदात्तङितः” (अष्टा०सु०१-३-१२) इत्यनेनैवात्मनेपदम् । अवयवे ह्यचारितार्थं लिङ्गं समुदायं विशिनष्टि सामर्थ्यात् । न चैवं 'जुगुप्सति' इत्यादावतिप्रसङ्गः । सन्पर्यन्तविशेषणेन चारितायै सति ततोऽप्यधिकविशेषणे प्रमाणाभावात् । नन्वेवं 'गोपयति' 'तेजयति' इत्यादावतिप्रसङ्गः । सन्णिचोर्मध्ये कतरद्विशेषणीयं कतरनेत्यत्र विनियामकाभावादिति । अत्राहुः यत्र निन्दादौ सन्निष्यते तदर्थका एवानुदा ततः नित्यसन्नन्ताश्चैते । अर्थान्तरे स्वननुबन्धका एव चुरादौ पा व्याः । अन्यथा निन्दाक्षमादिभ्योन्यत्र यथा णिज् भवति तथा लडादिरपि स्यात् ।
७९