________________
एक शेषप्रकरणे जिवनसूत्रम् ।
ai
सरूपाश्च
च मुक्तसंशयम्” (का०वा० ) इति वारिष्ट्रा नानार्थ एवेहोबाहर णमिति भ्राम्यन्तः परास्ताः । न च पदार्थतावच्छेदकभेदाभावाद् 'घटौ' इत्यादौ द्वन्द्वप्रसक्तिनेति वाच्यम्। "वार्गे द्वन्द्वः " ( अष्टा०सू० २-२-२९) इति सूत्रेण साहित्यमात्रे तद्विधानात् । तस्य चेतरेतरयोगद्वन्द्वे एकशेषे च विशेषणत्वं प्रयोगोपाधित्वं वा । समाहारद्वन्द्वे त प्राधान्येन भानमित्यन्यदेतत् । न चैवमपि 'घटकलशी' इत्यादि. द्वन्द्वापत्तिः । "विरूपाणामपि समानार्थानाम" (का० वा० ) इति वा . र्त्तिकेन एकशेषात् । वस्तुतस्तु सौत्र एवायमर्थः । रूप्यते बोध्यते इति रूपम्, अर्थः समानं रूपं येषामिति सरूपाः । "ज्योतिर्जनपद" (अष्टा०स० ६-३-८५ ) इति समानस्य सभावः । सरूपाश्च तेषामिति एकशेषेण व्याख्यानात् । न च स्वाङ्गे स्वव्यापारायोगः वाक्यापरिसमाप्तिन्यायादिति वाच्यम् । उद्देश्यतावच्छेदकरूपाक्रान्ततया " तुल्यास्यप्रयत्नम् " [ अष्टा०सू० १-१-९] इतिवत्स्वस्मिन्नपि प्रवृत्तेः । एतद्विषयविवेचनं तु "अइउण्" ( मा०सू० १) इत्यत्रैव कृतम् । अत एव जननीवाचिनो मातृशब्दस्य धान्यमापवाचिनस्तृजन्तस्य च एकशेषं निषेधुं प्रवृत्ते "मातृमात्रोः प्रतिषेधः सरूपत्वात्" (का० वा० ) इति वार्त्तिके स्वान्तर्गते मातृमात्रोरित्यत्रापि निषेधप्रवृत्तिः । नन्वर्थविशेषोपहितयोरेव तत्राऽनुवादः । अन्यथा जननीवाचिनोरपि निषेधापत्तेः । तत्कथं शब्दरूपपरे स्वान्तर्गते निषेधप्रवृत्तिरिति चेत्, "प्रकृतिवदनुकरणम्" इत्यतिदेशादिति गृहाण । सूत्रमतेतूत्तरसूत्र देव कारोऽत्राऽनुकृष्यते । तेन एकविभक्तौ यानि सरूपाण्येवेति व्याख्यानात्परिच्छेतृवाचिनश्च "अप्तृन्” (अष्टा०सू०६-४-११) इति सर्वनामस्थाने दीर्घविधानादसारूप्यादेकशेषाभावः । न च वाचनिकैकशेषविरहे ऽपि श्लिष्टरूपकस्थल इव तन्त्रन्यायाश्रयेण पाक्षिक एकशेषो मातृमात्रोः स्यादेवेति वाच्यम् । यान्येकविभक्तौ सरूपाण्येव तेषामेवैकशेष इति नियमात् । न चैवं 'घटघटौ' इति पाक्षिकं दुर्वारमिति वाच्यम् । तन्त्रावृत्त्याद्याश्रयणेन सरूपाणामेकशेष एवेत्य परनियमाश्रयणात् । तस्मात 'घटकुम्भौ' 'कुम्भकुम्भौ' 'मातृभ्यां' चेति पाक्षिकमनिष्टत्रितयं प्राप्तं सूत्रेणाऽनेन वार्यते । 'घट' इत्यादिसिद्धिस्तु स्यादेवैतद्विनापि हि । जातिपक्षे व्यक्तिपक्षेऽपीति निष्कर्ष संग्रहः । स्यादेतत् - देवदेव इत्यादावपि ठर्ह्येकशेषः प्राप्नोति । न च 'एकविभक्तौ' इत्यनेन तद्वारणम् । तस्य सारूप्योपलक्षणत्वादेकशेषस्य चानैमित्तिकत्त्वात् । अथ वक्ष्यमा णरीत्या एकशेषविशेषणतां ब्रूषे, तथाप्यनिस्तारः । देवदेव इत्यत्रापि
३९.