________________
४०. शब्द कौस्तुभ प्रथमाध्यायद्वितीयपादे तृतीयान्हिके
षष्ठीसमासादुपरि एकविभक्तेः सत्वात् । अन्तर्वर्तिन्योस्तु लुका लुप्त त्वेन प्रत्ययलक्षणाभावात । अत्राहुः -- सहविवक्षायामेव एकशेषः । इतरेतरयोगद्वन्द्वस्य विषये इति यावत् । अत्र ह्यनेकस्यार्थस्य मिलितम्ये. तरान्वयः स तथाभूतो विषयः । उक्तञ्च --
"अनुस्यूतेव भिन्नानामेका प्रख्योपजायते । यदा सहविवक्षान्तामा हुर्द्वन्द्वैकशेषयोः” इति ।
अयञ्च विग्यनियमोऽभिधानवलाल्लभ्यते "वृद्धोयूना'' [ अष्टा०सू० १-२-६५] इत्यादिसूत्रेषु सहयोगे तृतीयायाः प्रयोगाञ्च । यद्वा -- पूर्वसूत्रात् 'द्वन्द्वे' इत्यनुवर्त्तते । अर्थाधिकाराश्चेतरेतरयोगद्वन्द्वावगमः | तेन द्वन्द्वे प्रसक्ते सतीति व्याख्यानादुक्तविषयनियमसिद्धिः । न च द्वन्द्वे कृते इत्येव व्याख्यायतामिति वाच्यम् । स्वरसमासान्तादिदोषप्रसङ्गेन "कृतद्वन्द्वानामेकशेषः" इति पक्षस्य दूषयिष्यमाणत्वात् । एतेन "सारवसारवोर्मिजः” इति श्रीहर्षप्रयोगोऽपि व्याख्यातः । सरख्यां भवाः सारवाः । ते च ते आरवसहिताश्चेति कर्मधारये सहविवक्षाविरहात् । "विद्वन्मानसराजहंस" इत्यादिश्लिष्टरूपके तु मानसमेव मानसमिति तन्त्रेण प्रयोगो न तु सौत्र एकशेषः । सहविवक्षाविरहात् । 'सारवः' इत्यत्राऽपि तथा स्यादिति चेत्, पक्षे एवमेव । तावताऽपि उभयप्रयोगस्य निर्वाह्यत्वात् । न चैवं समाहारद्वन्द्वविषये एकशेषानु शासनात्पाक्षिकं 'घटघटम्' इत्यादि दुर्वारमेवेति वाच्यम् । तत्राऽनभिः धानस्यैव शरणीकरणीयत्वात् । अस्तु वा तत्राप्येकशेषप्रवृत्तिः । न चैवं नपुंसकतापत्तिः। समाहारद्वन्द्व एव तदनुशासनात् । तथा च प्रत्यर्थ शब्दनिवेश इति पक्षे "न ब्राह्मणं हन्यात्" इत्यादौ सकलव्यक्तिसङ्ग्रहो भविष्यतीति प्रतिव्यक्तिलक्षणं नावर्तनीयम् । “एकवश्चास्यान्यतरस्याम्' [ अष्टा०सू०१-२-६९] इति ज्ञापकादेकशेषे कृते एकवद्भावो नेति तु तत्त्वम् । एकश्च एकश्च द्वौ च द्वौ चेत्यादौ तु द्वन्द्वैकशेष उभावपि अनभिधानेनैव वारणीयौ । उत्सर्गतः संख्याशब्देऽप्येवमेवेति बोध्यम् । 'विंशति' इत्यादौ त्वेकशेष इष्ट एवेति दिक् । एवं स्थिते सूत्रारंभपक्षेऽपि बहुशोऽनभिधानस्यैवाश्रयणादू 'घटघटौ” इ. त्यादावपि तथैवास्तु किं तन्निरासार्थे सूत्रारम्भेणेत्याशयेन भगवता एकशेषप्रकरणं प्रत्याख्यातम् । न चैवं 'पितरौ' इत्यत्र मातुः, 'श्वशुरौ' इत्यादौ श्वश्वादेश्व प्रतीतिः कथं स्यादिति वाच्यम् । एकशेषारम्भेऽपि तौल्यात् । यः शिष्यते स लुप्यमानार्थाभिधायीति चेत् तर्हि द्विवचनाचुपाधिविशेषपुरस्कारेण पित्रादिशब्दानामेव मात्रादौ शक्तिर्निरुदल -