SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे आत्मनेपदनियमप्रकरणम् । वर्तमानादात्मनेपदं स्यात् । साधु विक्रमते वाजी । पादविहरणं पा दविक्षेपः । यद्यपि कमिस्तत्रैवार्थे पठ्यते तथापि धातुनामनेकार्थ. वात्सूत्रेर्थोपादानम् । तेनेह न--विक्रामत्यजिनसन्धिः. द्विधाभवति स्फुटतीत्यर्थः। प्रोपाभ्यां समर्थाभ्याम् (अष्टा०सू०१-३-४२) । तुल्यार्थाभ्यां प्रोपा. भ्यां क्रमेरात्मनेपदं स्यात् । समस्तुल्योऽर्थो ययोरिति विग्रहे शकन्ध्या. दिस्वात्पररूपं सशब्द एव वा तुल्योर्थों बोध्यः । प्रारम्भेऽनयोस्तुल्या. थता । प्रक्रमते, उपक्रमते । आरभते इत्यर्थः । समर्थाभ्यां किम् ? प्रक्रा. मति गच्छतीत्यर्थः । उपनामति । आगच्छतीत्यर्थः । “उपपराभ्याम" (अष्टा०सू०१-३-३९) इति तु नेह प्रवर्तते । तत्र वृत्त्यादिग्रहणानुवृत्तेरु. तत्वात् । इह च वृत्त्यादेरविवक्षणात् । अनुपसर्गाद्वा (अष्टा सु०१-३-४३) । अनुपसर्गात्कमेरात्मनेपदं वा स्यात् । कामति, क्रमते । “उपपराभ्याम्":(अष्टा०सू०१-३-३९) इत्यस्य नियमार्थत्वाद्धृत्यादिसूत्रमनुपसर्गविषयकमेव । तेन वृत्यादौ नायं विक. ल्पः । तस्मादप्राप्तविभाषेवेयम् । ___ अपन्हवे शः (अष्टा सू०१-३-४४)। अपलापे वर्तमानाजानातरात्म. नेपदं स्यात् । शतमपजानीते अपलपतीत्यर्थः।। __ अकर्मकाञ्च (अष्टा०सू०१-३-४५)। अकर्मकाजानातेरात्मनेपदं स्यात्। सर्विषो जानीते । सर्पिषा उपायेन प्रवर्तत इत्यर्थः । "ज्ञोविदर्थस्य" (अष्टा०सू०२-३-५१) इति करणे षष्ठी । 'अकर्मकात्' इत्यस्य स्थाने 'स. करणात्' इत्येव तु नोक्तम् । “स्वरेण पुत्रं जानाति" इत्यत्रातिव्याप्तेः । सम्प्रतिभ्यामनाध्याने (अष्टा०सू०१-३-४६)। आभ्यां जानातरात्मनेपदं स्यादनाध्याने । शतं सञ्जानीते। अवेक्षत इत्यर्थः । शतम्प्रतिजानीते। अहीकरोतीत्यर्थः । अनाध्याने किम् ? मातुः सञ्जानाति । उत्कण्ठापूर्व स्मरतीत्यर्थः । "अधीगर्थ" (अष्टा०स०२-३-५२) इति कर्मणि षष्ठी । ननु तत्र "शेषे" इत्यनुवर्तते तेनात्र कर्मणः शेषत्वेन विवक्षित. स्वात् "अकर्मकाच्च" (अष्टा सू०१-३-४५) इति पूर्वेण प्राप्नोति, अ. पाहुः-'अनाध्याने' इति विभज्यते । स चोभयोर्योगयोः शेषः तेनाध्याने पूर्वेणापि न भवतीति । भासनोपसम्भाषाक्षानयत्नविमत्युपमन्त्रणेषु धदः (अष्टा०सू०१-३४७) । एवर्थेषु वदेरात्मनेपदं स्यात् । अत्रोपसम्भाषोपमन्त्रणे धातो. च्ये । इतरे प्रयोगोपाधयः। भासनन्दीप्तिः । शास्त्रे वदते । भासमानो ब्र. बीतीत्यर्थः । भासनं हेतुभूतं सद्विशेषणं शिष्यैः स्तूयमानो हि भासते ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy