SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३०२ शब्दकौस्तुभतृतीयाध्यायप्रथमदेप्रथमाह्नि के ज्ञका इति द्वितीयं वाक्यं कल्प्यम, मानाभावाद् गौरवपराहतत्वा. च्च । वनु सनादीनामप्यसतां संज्ञानुपपत्तेः वाक्यभेदेनैव संज्ञा विधे. या। ततश्च यथा एकेन सनादीनां विधिरपरेण संक्षाविधिः, एवं प्र. कृत्यादीनामपि स्यादेवेति । तन्न, वृद्धिसूत्रशेषे वर्णितया रीत्या सन्प्र. त्ययो भवतीत्यादिक्रमेण संझाविशिष्टस्य संझिन एकवाक्येनैव विधिसम्भवात् । नहि 'उद्भिदा यजेत' इत्यादौ नामधेयसम्बन्धलाभाय वि. ध्यावृत्ति मन्वते न्यायविदः। अभ्युपेत्य बमः, संशापरं द्वितीयं वा. क्यमपि 'गुप्तिजकिदभ्यः सन् प्रत्ययः' इत्यादिरूपमेव । तथाच विरुद्ध. विभक्त्यवरुद्धानां प्रकृत्यादीनां प्रथमान्तेन प्रत्यय इत्यनेन सामानाधि. करण्यमसम्भाव्येव । न च द्वितीयवाक्ये प्रकृत्यादीनां विभक्तिविपरि. णामेन प्रथमा कल्पया, योग्यविभक्तिनिर्दिष्टषु सनादिषु संज्ञायाश्चरि. र्थत्वात् । अपि च आघवाक्ये सनादीनामेव अपूर्वविधानविषयतया प्राधान्यम् । एवञ्च द्वितीयेऽपि संज्ञिनमपेक्षमाणा संक्षा पूर्वत्र प्रधानत. या क्लप्तमेव गृहीयात् न त्वप्रधानमरि । नन्वेवमपि विकारागमानां विधेयतया प्राधान्यात्संज्ञा दुर्वारेति चेत् ? मैवम् , अन्वर्थसंचाविशा. नात् । प्रतियन्त्यनेनार्थमिति हि प्रत्ययः ।विकारागमो त्वनर्थको । न चै. वम् "अवेः कः" (पा०सू५-४-२८) इत्यादीनां समासान्तानां च प्रत्यय. संक्षा न स्यात् , अनर्थकत्वादिति वाच्यम् , 'स्वार्थिका अपि प्रकृत्यः थैनार्थवन्त एव' इति सिद्धान्तात् । यत्तु कल्पनामात्रमेतदिति । तन्त्र, प्रकृतिप्रत्ययार्थविभागस्य सर्वस्वापि काल्पनिकत्वाविशेषात् । नैषा कल्पना शास्त्रकसम्मतेति चेत् ? न, "द्वितीय'' (पा०सू०२-२-३) इति सूत्र पूरणार्थात्स्वार्थे अन्प्रत्ययस्यापि पूणार्थताया भगवतैवोक्तः इहापि प्रत्याय्यन्त इति व्युत्पत्त्यन्तरमप्याश्रित्य प्रकुत्या अभिव्यज्य. मानार्थत्वं स्वार्थिकानामस्तीति भाष्यकैयटयोः स्वीकाराच्च । न चै. वं विकारागमयोः सम्भवति, प्रकृत्यवयवतया तदर्थ एवापक्षयात् । अपिच प्रयोजनाभावान्नामोषां संज्ञा। न च परत्वमेव प्रयोजनम् , षष्ठया विकाराणां स्थानसम्बन्धस्य आगमानामवयवत्वेन सम्बन्ध. स्य च प्रतिपादनात् । न चायुदात्तत्वं प्रयोजनम् , .आगमानामनुदासत्वविधानात् । यत्र तु प्रयोजनं लभ्यते तत्रेष्यत एवागमस्यापि प्र. त्ययत्वम् । यथा श्रमः शकारस्येत्संक्षार्थमिति। इदं स्ववशिष्यते, "हनश्च वधः” (पा०सू०३-३-७६) "नामिनभं च" (ग०स०) "विरागविरङ्गश्च'' (गसू०) इत्यादावादेशानां संज्ञा स्यात अर्थववाद्विधेयत्वेन प्राधान्यात् योग्यविमतिकस्वाच्चेति ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy