SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ विधिप्रकरणे प्रत्ययाधिकारप्रकरणम् । ३०१ वृत्तिः प्रवृत्तिः । यदैव तासिः प्रवर्तते तदैवापवादाभावाददासत्व युक्त इत्यर्थः। मुनित्रयोक्तिसदणीपरिशीलनशालिनाम् । महतामपि मान्योऽसौ धार्यते येन कौस्तुभः ॥ इति श्रीमत्पदवाक्यप्रमाणपारावारपारीणस्य लक्ष्मी. धरसूरेः सूनुना भट्टोजिभट्टेन कृते श्रीशब्द कौस्तुभे द्वितीयस्याध्यायस्य चतुर्थे पादे द्वितीयमा. न्हिकम् । पादश्च समाप्तोऽध्यायश्च ॥ प्रत्ययः (पासू०३-१-१) ॥ प्रत्ययशब्दः संशात्वेनाधिक्रियते आ. पञ्चमसमाप्तेः । स्यादेतत्, प्रकृत्युपपदोपाधिविकारागमानामतिर्हि संज्ञा स्यात् । "हरतेईतिनाथयोः पशौ" (पा०४०३-२-२५)। हरते. रिति प्रकृतिः। तिनाथयोरित्युपपदम् ।पशावित्युपाधिः । "हनस्त च" (पासू०३-१-१०८) इत्यादिर्विकारः । “त्रपुजतुनोः षुक्"(पासू०४-३ १३८) इत्यागमः । नन्वेषां प्रत्ययत्वे सति किं स्यादिति चेत् ? शुणु, प्रकृतिप्रत्यययोः परस्परापेक्षं परत्वं पर्यायेण स्यात, शब्दान्तरापेक्षं वा प्रकृतेः । उपपदस्यापि परत्वं स्यात् । "उपसर्जनं पूर्वम"(पा०सु०२-२३०) इति तु राजपुरुषादिषु सावकाशं परत्वात् "परश्च"(पा०४०३-१-२) इत्यनेन बाध्येत । ननु सुविधौ प्रातिपदिकाधिकाराद्राजपुरुषादौ कथं सावकाशतेति चेत् ? सत्यम, एवमपि समाससंशाविरहस्थले उप. पदस्य परत्वं स्यादेव । तथा च भोक्तुं बजतीत्येव स्यात्, न तु वज. ति भोक्तुमिति । उपाधेस्तु अर्थत्वेन परत्वासम्भवेऽपि तद्वाचकशब्द. स्य परत्वं नियतं स्यात् । आयुदात्तत्वं च स्यात् । अङ्गसंज्ञा तु विधा नायचा । न च प्रकृत्यादयः कुतश्चिद्विहिता अतो न प्रकृत्यादिषु परेषु पूर्वस्य तत्प्राप्तिरिति प्रागुक्ता एव दोषाः । विकारागमयोरपि यथायथं परत्वमाादात्तत्वं तयोः परतः पूर्वस्यानत्वं च स्यादिति दुष्टोऽयं प्रत्य. याधिकार। __ अत्राः, प्रकृस्यादीनां सनाद्युत्पत्तौ निमित्तत्वेनोपादानात् पारायोत् स्वसंस्कारं प्रति न प्रयोजकत्वम् । यथा 'योऽश्वे स देवद. सः' इत्युक्ते वाश्वस्य देवदत्तसंचा। किच हरतेई तिनाथयोः कर्मणो. रुपपदयोः पशी करि इन्प्रत्ययो भवतीति वाक्यार्थपर्यवसाने कथं प्रकृत्यादीनां संज्ञाप्राप्तिः १ न च मावृत्त्या ते च हरत्यादयः प्रत्ययसं.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy