________________
शब्द कौस्तुभद्वितीयाध्याय चतुर्थपादे प्रथमाहिके
प्रयुतघृतवसन्ता हस्तबुस्तापराह्नाः । पलित फलक कण्टा नाम कर्माभिधानाऽयुतशत तृणनीडा यौवनोद्यानयानाः । खरकं ग्रन्थविशेषः । मठं व्रतिनां स्थानम् । विटङ्कं कपोतपाली । क्ष्वेडितो मुखध्वनिविशेषः । भूतः पिशाचे द्विलिङ्गः । क्रियाशब्दस्तु विशेष्यलिङ्गः । वृत्तं शीलम् । प्रयुते दशलक्षाः । घृत आज्यम् । हस्तं पाणिः । बुस्तं मांसशष्कुली । पलितः पाण्डुरकेशः । फलकः खेटकम् | कष्टं पापम् । अयंनामा अयंकर्मा, कार्यमित्यर्थः ।
कर्म व्याप्ये क्रियायाञ्च पुंनपुंसकयोर्मतम् ।
इति रुद्रः ! यौवनो द्वितीयं वयः । उद्यान आरामः । यानो वाहनम् । तीर्थप्रोथौ नलिन पुलिनस्तेय योधौषधानि स्थानः शूर्पो निधनशयन द्वीपपुच्छायुधानि । यूथं गूथं कुणप कुतपक्षेमवर्णासनानि च्छत्राकाशप्रतिसरमुधाष्टापदारण्यवर्षाः ॥
प्रोथोऽश्वनासा । स्तेयश्चौर्यम् । योधो भटः । औषधो भेषजम् । स्थानम् आधारः । शूर्पो वेणुपात्रम् । निधनो मृत्युः । शयनः शय्या | यूथः पशुसमूहः । गुथो विष्ठा । कुणपं शवः । कुतपः कालविशेषः । वर्णमक्षरम् । प्रतिसरः कङ्कणम् । मुखो वदनम् । अष्टसु लोहेषु पदं प्र तिष्ठाऽस्येत्यष्टापदं सुवर्णम् । “अष्टनः संज्ञायाम् (पा०सु०६-३ - १२५ ) इति दीर्घः । अरण्योऽटवी । वर्षः संवत्सरः । कमण्डलुमण्डपकुट्टिमाबुदावतंसपाराः शतमानचन्दनौ । समानपुत्रौ दृढमूषिकौदना दिनं विमानं च वितानलोहितौ ॥ अर्बुदो दशकोटिः । पर्वते तु पुल्लिङ्गः । तथाच मेदिनीअर्बुदो मांसपुरुषे दशकोटिषु न स्त्रियाम् ।
महीधरविशेषे ना इति । अवतंसं शेखरम् । पार: परतीरम् । शतमानं रूप्यपलम् । समानः सदृशः । पूषो मुद्रादिनिर्यासः । मूषिक आखुः । ओदनं कूरः । दिनो दिवसः । लोहितः शोणितम् । गुणवाची तु वाच्यलिङ्गः।
२६४
अंसक्षीरकषायबिम्बविटपा नेत्राव्ययौ शेखरः केदाराश्रम शल्यशूलवलया बालस्तमालो मलः । गुल्माङ्गारविहारतोमररसाः पात्रं पवित्रं पुरम
मध्यो बुध्नमृणालमण्डलनला नालप्रवालोत्पलाः ॥ अंसः स्कन्धः । क्षीरो दुग्धम् । कषायं तुवरो रसः । विम्बो