________________
३८४
शब्द कौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थाह्निके—
निवृत्तम् । अन्यथा नञो वैयर्थ्यापत्तेः । न च प्रतिषेध एव इहानुवर्त्ततेति वाच्यम्, तस्य प्राप्तिपूर्वकत्वात्, भावकर्मणोश्च केनापि चिणः प्राप्तेरभावात् । न च "श्लिषः" इति विभक्तेन योगेन विधीयमानः क्लः पुत्राद्यङमिव इमं चिणमपि बाधेत, अतोऽत्र चिणेव यथा स्यात् क्लो मा भूदित्येतदर्थे पुनश्चिण्ग्रहणमिति प्रकृतसूत्रे भाष्यारूढं प्रयोजनम स्त्येवेति वाच्यम्, तस्यापि पाक्षिकत्वात् । समुदायापेक्षायां ह्येतदु· तम् । अवयवापेक्षायां पुरस्तादपवादन्यायेन श्लिषेः क्सोऽङमेष बा धते न तु चिणमिति प्रागेवोक्तम् ।
सार्वधातुके यक् (पा०सू०३-१-६७ ) ॥ भावकर्मवाचिनि सार्वधा तुके परे धातोर्यक् स्यात् । आस्यते । शय्यते त्वया । "अयङ् यि ङ्किति" (पा०सु०७-४-२२) इति शङिऽयादेशः । क्रियते कटः ।
६६ कर्मणि यक् भवतीत्यस्यावकाशः शुद्धं कर्म - पच्यते ओ. दनः । कर्तरि शपोऽवकाशः शुद्धः कर्ता । कर्मकर्तर्युभयप्रसङ्गे— यग्विधाने कर्मकर्तर्युपसंख्यानम् तर्हि कर्तव्यम् । न कर्तव्यम् । कार्यातिदेशात्सिद्धम् । कर्मवत्कर्तरीत्यनेनैव हि यगात्मनेपदादीनि विधीयन्ते इति यगेव परः 1 शास्त्रातिदेशपक्षेऽपि "न दु. हस्नुनमां यचिणौ ” ( पा०सु०३-१-८९) इति ज्ञापकात् कर्मकर्तरि यगेव भविष्यति ।
अत्रेदमवधेयम्, भावकर्मकर्त्तारो लकारार्थाः । “लः कर्मणि च भावे चाकर्मकेभ्यः' (पा०सू०३-४-६९) इति सूत्रात् । तत्र हि चकारेण 'कर्तरि' इत्यनुकृष्यते । तश्च वाच्यार्थसमर्पकमिति पूर्वसूत्रे स्थितम् । उत्तरत्रापि “तयोरेव कृत्य " ( पा०सू०३ - ४ -७० ) इत्यत्र तथैवेति सन्दंशास्प्रायपाठाच्च मध्येऽपि वाच्यसमर्पकतैवोचिता प्रधानभूतधात्वर्थाश्रयः कर्ता, फलाश्रयश्च कर्म, फलव्यापारयोश्च धातुनैवोपात्तत्वात् । अःश्रयमात्रं लकारार्थः, अनन्यलभ्यस्यैव शब्दार्थत्वात् । ततश्च तिङामपि स एवार्थः तेषां लादेशत्वात् स्थान्यर्थाभिधानसमर्थस्यैव चादेशत्वात् । विकरणास्तु द्योतकाः । तत्रापि शबादयो धात्वर्थे व्यापारे आश्रयस्थ विशेषणतां द्योतयन्ति यचिणौ तु फले । ननु विपरीतमेवास्तु, "कर्तरि शप्" ( पा०सु०३-१-६८) इत्यादेरप्यनुशासनस्य स्वरसेन शबादय एव वाचकाः, लकारास्तु द्योतका इतीति चेत् ? न, आशीलिर्डि लिटि च अदादिजुहोत्यादिषु च शबाधभावेऽपि तत्प्रतीतेः । यद्यपि —
क्वांचीचङामभावेऽपि प्रतीयन्ते त्रयोऽप्यमी ।