________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३१९
एवं गिरमिच्छति गीर्यति । अत्रापि गिरतेः किपि ऋत इत्वे रपरत्वे प्राग्वद्दीर्घः । गीर्थिता, गिरिता । "कयस्य विभाषा" (पा०सू०६-४५०) इति यलोपपक्षे हल्परत्वाभावान्न दीर्घः । "वः " ( पा०सु०८०२७६) इति पदस्य विधीयमानो ऽपिन, “नः क्ये" इति नियमेनापदत्वात्। स्वरिच्छतीति तु वाक्यमेव न तु क्यच्, मान्ता ताव्ययेभ्यः प्रतिषेधात् । चतुर्यति । दिव्यति । अनयोरधातुत्वात् "हलि च" (पा०सू०७-२-७७) इति दीर्घो न | चतुर्दिवशब्दौ हि "चतेरुरन्” ( उ०००४७) इति सूत्रेण "दिवेर्डि विः” इति न्यासोहितसूत्रेण च व्युत्पन्नौ अव्युत्पन्नावेव वा । उभयथाऽपि धातुत्वाभावः स्पष्ट एव । यत्तु प्रक्रियायां "हलिच " (पा०सू०८-२-७७) इति दीर्घः दिवमिच्छति दीव्यतीत्युक्तम्, तदप्रामाणिकमेव । तथाच हलि चेति सूत्रे काशिका - " धातोरित्येव दिवमिच्छति दिव्यति' इति । यत्तु दिवेरौणादिके किपि दिवशब्दो धातुरेवेति । व्युत्पत्तिपक्षमाश्रित्य प्रक्रिया ग्रन्थः, अव्युत्पत्तिपक्षमाश्रित्य तु काशिकेत्यविरोध इति प्रसादकृतोक्तं; तत्तुच्छम्, किबन्तत्वे ऊठः प्र सङ्गाद् भाग्यविरोधाच्च । “दिव औतृ" (पा०सु०७-१-८४) इति सूत्रे हि 'अक्षद्यू:' इत्यत्र अतिव्याप्तिमेकदेशविकृतस्यानन्यत्वादाक्षिप्य "नि: रनुबन्धक" (प०भा०८३) परिभाषया "उगिदचाम्” (पा०सू०७-१-७०) इति सूत्रादधातुग्रहणानुवृत्या वेति द्वेधा समाहितम् । उभयथाऽपि त्वत्पक्षे असङ्गतिः स्पष्टैवेति दिक् ।
तमिच्छति तद्यति । यद्यति । प्राणितीति प्राणू, प्राण्यति । अहर्यति । "रोऽसुपि" (पा०सु०८-२-६९) इति रुत्वापवादो रेफः । स च न. लोपे कर्तव्ये असिद्धो नेति वक्ष्यते ।
I
उज्झेः किए उत्, तमिच्छति उज्झ्यति । ककुभ्यति । मृडं परिवृढं वाऽऽचक्षाणामिच्छति मृद्ध्यति, परिवढ्यति । णाविष्ठव दित्यतिदेशात्परिवृढेकारस्य रेफः । बुधेः किप्, भुत्, तमिच्छति बुध्यति । त्वां मामि च्छति त्वद्यति मद्यति । अतित्वामतिमामिच्छति अतित्वद्यति, अतिमद्यति । "प्रत्ययोत्तरपदयोश्च (पा०सु०७२-९८) इति त्वमौ । युवामावां वेत्यादिविग्रहे युष्मद्यति, अस्मद्यति । अतियुष्मद्यति, अत्यस्मद्यति । उखां पन्थानं च आचक्षाणमिच्छति उख्यति, पथ्यति । मरुत्यति । अदस्यति । पयस्यतीत्यादि ।
काम्यश्च (पा०सु०३-१-९) । उकविषये काम्यच् स्यात् । पुत्रमारमन इच्छति पुत्रकाम्यति । "सुप आत्मनः क्यच्काम्यचौ" इति वक्तव्ये उत्तरत्र द्वयोरनुवृत्तिर्मा भूदित्येवमर्थो योगविभागः । न चैवमपि .स.