SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे इत्संज्ञाप्रकरणम् । ५७ तत्-आये हल्संशातः पूर्व कथं संयोगान्तलोपः, संयोगसंज्ञाया अनिष्प. तेः। द्वितीये हस्य ल् इति कथं समासः, सुप्संज्ञाया श्चानिष्पादात् । एवं तृतीये हलोऽन्त्यमिति तत्पुरुषः कथम् । चतुर्थे च लदित इति बहुव्रीहिः कथम् ? उच्यते । साधुत्वज्ञानोपयोगिनः शास्त्रस्याप्यर्थबोधो यदि तद्वोध्यसाधुत्वानां पदानां स्वार्थानुभावकतायामुपयुज्येत तदैष दोषः स्यात् । स च नोपयुज्यते प्रमाणाभावात् , शतशो व्यभिचाराच । यथा चैतत्तथा “अइउण" (मा०सू०१) इत्यत्रैव प्रतिपादितम् । __न विभक्तो तुस्माः (अष्टा सु०१-३-४) । विभक्तिस्थास्तवर्गसका रमकारा इतो न स्युः । रामान्, पचेरन्, ब्राह्मणाः, पचतः, रामम्, अ. द्राक्षम् , विभक्तौ किम ?"अचो यत्"(अष्टासू०३-१-९७)"ऊर्णाया युस्" (अष्टा०सू०५-२-१२३) “रुधादिभ्यः श्नम्" (अष्टा०सू०३-२-७८) "प्रा. ग्दिशोविभक्तिः” (अष्टा०सू०५-३-१) इति यत्र विभक्तिसंशा तत्रायं नि. षेधो न भवति । इदमस्थम' (अष्टासु०५-३-२४) इति मकारपरि. त्राणार्थमुकारानुबन्धासअनाज्ज्ञापकात् । तेन "किमोत्" (अष्टा०प्नु० ५-३-१२) 'क' इति सिद्धम् । स्यादेतत्-'तदानीम्' इत्यादौदिानीमोऽपि तर्हि मित्वं स्थादिति चेन्न, यान्तत्वात्तस्य । यकारो ह्यन्त्यत्वमनुभवन्म. कारस्येत्संज्ञां प्रतिबध्नाति । "संयोगान्तस्य लोपः" (अष्टा सू०८-२-२३) इति यलोपस्येत्संज्ञां प्रत्यसिद्धतया मकारस्यान्त्यत्वाभावात् । यद्वा"इदमस्थमुः" (अष्टा०सू०५-३-२४) इत्यनेनानित्यत्वमा शाप्यते, न तु प्राग्दिशीयेप्वप्रवृत्तिः । "औत्" (अष्टा०सू०७-३-१२८) "इटोऽत्" (अष्टा सू०३-४-१०६) इत्यत्र तु मुखसुखार्थस्तकारः न स्वित्संज्ञका, तित्स्वरापत्तेः । न चेष्टापत्तिः, 'उरौ वाये' 'भक्षीय तवराधारा' इत्यादौ 'उरौ भक्षीय' इत्यनयोरन्तोदात्ततादर्शनात् । “आद्युदात्तश्च' (अष्टा० सू०३-१-३) इति सूत्रे 'भविषीय' इत्यत्र भाष्यकारैरेवान्तोदात्तत्वस्यसि द्धान्तितत्ताच्च । यत्त्विह वृत्तिकृतोक्तम्, "किमोत्, (अष्टा०सू०५-३-१२) "इटोऽत्" (अष्टा सू०३-४-१०६) इत्यत्रोऽयं निषेधो न भवति अनित्य. स्वादस्य विधेरिति, तत्स्वोक्तिविरुद्धम् । "इटोत्" (अष्टा सू०३-४१०६) इति तेनैवोक्तत्वात् । तस्मादभ्युपेत्यवादमात्रम् । यद्वा-"इटोत्" (अष्टा सू०३-४-१०६) इत्यत्रास्य अकारमात्रस्य विधेः। अनित्यत्वा. दिति तु "किमोत्" (अष्टा सू०५-३-१२) इत्येतत्परमिति व्याख्येयम् । आदिजिटुडवः (अष्टा०स०१-३-५)। उपदेशे आदिभूताःनि टुहुएते इतः स्युः। "मिहन्धी"(रुधा आ०१४४९) इद्धः। "टुवे' (भ्वा०आ०३६७) घेपथुः । “दुवप्" (भ्वा००१००३) उप्तिमम् । उपदेश इति किम् ? भि.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy