SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ शब्द कौस्तुभ प्रथमाध्यायतृतीयपादे प्रथमान्हिके हलम्यम् [अष्टा०स्०१-३-३ ] । उपदेशे ऽन्त्यं हलित्स्यात् । यद्यपि स. व इल् तन्तमधि प्रत्यन्त्यो भवति तथाऽपि धातुप्रातिपदिकत्वाद्युपा धिपरिच्छिन्नसमुदायं प्रत्यन्त्य इह गृह्यते, अन्त्यग्रहणसामर्थ्यात् । "शीड् स्वप्ने” (अदा० भा०) ङित्त्वात्तङ् । शेते । उपदेशे किम् ? अभिचि त् । "श्रोत्रियश्छन्दोऽधीते" (अष्टा०सू०५-२-८४) "क्षेत्रियच् परक्षेत्रे चि कित्स्य:" [ अष्टा०सु०५ - २ - ९२] इत्यादौ तु वाक्यार्थे पदवचनमिति पक्षेऽविद्यमान प्रकृतिप्रत्यय विभागेप्युपदेशेन्त्यत्वाद्भवत्येवेत्संज्ञा । 'सनुतः' इत्यस्य स्वरादिपाठादित्संज्ञा प्राप्ता उच्चारणसामर्थ्यान्न भवति । न च रित्स्वरः प्रयोजनम्, अन्तोदात्तनिपातनवैय्यर्थ्यापत्तेः । स्यादेतत्- हल्प्रत्याहारसिद्धेरेतत्सुत्र सापेक्षत्वादन्योन्याश्रयः । पदार्थबोधं विना वाक्यार्थज्ञानासम्भवात् । अत्राहुः - हल् च ल् चेति समाहारद्वन्द्वे संयोगान्तलोपेन लक्कारोऽप्यत्र निर्दिश्यते । तेन लस्येत्संज्ञायां सत्यां "आदिरन्त्येन” [अष्टा०सू०१-१-७१] इति हल्संज्ञा । ततोऽन्त्यं हलिदिति वाक्यार्थबोधः । यद्वा- छल् इति तन्त्रावृत्येकशेषाणामन्यतमाश्रयणाद्धस्य समीपवर्त्ती लकारो हल् स इदिति । सम्पूर्णसूत्रावृत्त्या हल्सूत्रस्यान्त्यं हलन्त्यमिति वा । इह पक्षत्रये "पूर्वः पूर्वः प्रबलः, लाघवात्" इति तस्वम् | यद्वा- हल्पुत्रे लकारस्यैव 'तवल्कार:' इतिवद् गुणभूतस्य निर्देशः । तस्य च "पुषादियुतालदितः [अष्टा०सू०३-१-५५] इति ज्ञापकादित्संज्ञा । न तु " उपदशेऽजनुनासिकः " [अष्टा०स् १-३-२ ] इति, अच्संज्ञाया अद्याप्यनिष्पादात् । यत्तु णलो लित्करणं ज्ञापकमिति, तः च्चिन्त्यम्, लित्वस्याद्याप्यसिद्धेः । न च 'बिभेद' इत्यत्र लोपाभावार्थ हल्ङयादिसूत्रेऽपृक्तं हलिति द्वितीय हल्ग्रहणं तत्र ज्ञापकमिति वाच्यम् । 'भविता' इत्यादौ डानिवृत्त्यर्थं हल्ग्रहणोपपत्तेः । न च सुतिसीतिप्रत्ययैः प्रकृतेराक्षेपान्नैवमिति वाच्यम्, 'या' 'सा' इत्यादौ सुलोपानापत्तेः । न चैकदेशविकृतस्यानन्यत्त्वादेकादेशस्य च पूर्वान्ततया ग्रहणाद्धलन्तायाः प्रकृतेः परत्वेनेष्टसिद्धिः । 'यः' 'सः' इत्यत्रातिप्रसङ्गात् । तस्माल्लोपप्रवृत्तिकाले हलन्तत्वं वाच्यम् । तच्च 'या' 'सा' इत्यत्रापि नास्ति किं त्त्वाबन्तात्परत्वमाश्रित्य लोपः कार्यः । न च तत्राबन्ता प्रकृतिः । उभयत आश्रयणेन्तादिवद्भावायोगात् । अथ "तदस्यां प्रहरणम" (अष्टा० सु०४-२-६२) इति निर्देशादाबन्तस्थले उभयत आश्रयेप्यन्तादिवद्भावं ब्रूषे तथापि हल्शब्दस्यैवाद्यापि शक्त्यग्रहे कथं हल्ग्रहणसामर्थ्याणलो लित्त्वं निश्वेयम् । न च "लिति" [अष्टा०सु०६-१-१९३] इति ज्ञापकम्, ल्युडादौ चरितार्थत्वात् । तस्मादुक्तप्रकारचतुष्टयमेव शरणम् : स्याद ५६
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy