SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ धात्वधिकारे कृत्प्रकरणम् । ૪૯ I शपि सत्यसति वा विशेषोऽस्ति । नचोत्तरार्थ शिन्त्वमिति वाच्यम्, इहार्थत्वे सम्भवति केवलोत्तरार्थत्वस्यायुक्तत्वात् । खशः शित्वं मुम. र्थम् । 'शुनिन्धयः' इत्यादौ ह्रस्वत्वार्थम्- खश्प्रकरणे वातशुनीतिलश द्वै ध्वजधेतुद जहातिभ्य उपसंख्यानम् (का०वा० ) ॥ वातमजा मृगाः । शुनिन्धयः । " खित्यनव्ययस्य" (पा०सु० ६-३-६६) इति -हस्वः। तिलन्तुदः । शर्द्धअहा माषाः । ओह्राक् त्यागे(जु०प०८ ) । जुहोत्यादित्वाच्छपः छौ द्विर्वचनम् । " श्राभ्यस्तयोः " ( पा०सु०६-४-११२) इत्यालोपः । शर्दोऽपानशब्दः, तञ्जहतीति वि. ग्रहः । माधवस्तु 'शर्द्धअदा माषाः ' : इत्युदाजहार । दुर्गसिंहोऽप्येवम् । तत्र जहातिरन्तर्भावितण्यर्थः साध्वसिच्छिनत्तीतिवत् । माषाणां करणकर्तृत्वमिति वा । नासिकास्तनयोर्मांधेटोः (पा०सू०३-२-२९ ) ॥ खशू स्यात् । तत्र यथासंख्यं वारयितुं वार्तिकम् - स्तने धेटः (का०वा० ) ॥ नासिकायां ध्मश्च धेटश्च (का०वा० ) ॥ स्तनं धयतीति स्तनन्धयः । धेष्टित्वस्य अवयवे अचरितार्थत्वात्स्तनन्धयी । अत्रैव च ङीबिध्यते नाम्यत्रेत्याहुरिति हरदत्तः । अत्रैवेति खश्प्रत्ययान्तोपलक्षणम् । तथा च क्षीरस्वामी 'स्तनन्धयीत्यादौ ङीबर्थः' इति । वर्द्धमानोऽपि शुनिन्धयी | स्तनन्धयी । खश्प्रत्ययान्त एव ङीबिति । तेन “पाघ्राध्माधेट्दृशः शः” (पा०स्०३-१-१३७) इति शप्रत्यये " जातोऽनुपसर्गे" (पा०सू० ३-२-३) इति कप्रत्यये च ढाबेव । अत्र च सम्प्रदाय एव शरणम् । नासिकन्धमः । " पात्र ।" (पा०सु० ७-३-७८) इति धमादेशः । नासिकन्धयः । नाडीमुष्टयोश्च (पा०सु०३ - २-३० ) ॥ एतयोः कर्मणोरुपपदयोर्मा धेटोः खश् स्यात् । अत्र यथासंख्यं नेष्यत इति भाष्ये वृत्तौ च स्थितम् । “यथासंख्यमनुदेशः " ( पा०सु०१-३-१०) इति सूत्रे तु भाष्ये यथासंख्य. मस्तरियुकम् । तम्मत मेदेन बोध्यम् । नाडिन्धमः, नाडिन्धयः । मुष्टिन्धमः, मुष्टिन्धयः । भाष्ये घटीखारी शब्दावप्युप संख्यातौ । घटी घटः । घटि• न्धमः । घटिन्धयः । खारिन्धमः । खारिन्धयः । खारीशब्दः परिमाणव खनः । 'खरी' इति पाठान्तरम् । खरी गईभी । जातिलक्षणो ङीष् । स्ररिब्धमः । खरिन्धयः । जयादित्यस्तु वातशब्दमप्युदाजहार, वातन्ध मः । वातन्धय इति । तन्तु भाग्यादौ न दृश्यते । उदिकूले रुजिवहोः (पा०सू०३-२-३१) ॥ उत्पूर्वाभ्यां रुजिव हिम्यां
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy