SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ प्रत्ययाधिकारे कल्यादेशविधानप्रकरणम् । ३८१ ९५) विधू राठी (दि०प०८६) इति पठ्यन्ते । द्युतादिष्वपि शिवता वर्णे; ञिमिदा स्नेहने, ञिष्विदा स्नेहनमोचनयोः (स्वा०आ०३४३, -३४५), स्रंसुध्वंसु अवस्रंसने ( वा०आ०३५५.३५६), स्पन्दू प्रस्रवणे, कृपू सामर्थ्ये (स्वा०आ०७६२,७६३) इति पठ्यन्ते । अद्युतत । अश्वितत् । "शुद्भ्यो लुङि” (पा०सू०१-३-९१) इति पाक्षिकं परस्मैपदम् । गम्ल (स्वा०प०१००७) अगमत् । परम्मैपदेष्विति किम् ? अद्योतिष्ट । इह "नन्दिग्रहिपचादिभ्यः " ( पा०सु०३-१-१३४) इतिवत् पुषद्युतादीत्येक एवादिशब्दः पठितुं युक्तः । तथा तु न कृतमित्येव । सर्तिशास्त्यर्तिभ्यश्च ( पा०सू०३ - १ - ५६) || एभ्यश्च्लेरङ् स्यात् । शासु अनुशिष्टौ (अ०प०६५) अस्यैव ग्रहणम्, सत्र्त्यर्तिभ्यां परस्मैपदिभ्यां साहचर्यात् । न तु 'आङः शासु इच्छायाम्' (अ०आ०१२) इत्यात्मनेपदिन इह ग्रहणम् । अर्तिसत्यरपि "क सृ गतौ” (जु०प०१६,१७ ) इति जौहोत्यादिकयोरेवेह ग्रहणम्, अविद्यमानशपा शासिना साहचर्यात् । तेन भौवादिकयोः सिजेब । चकारेण 'परस्मैपदेषु' इत्य नुकृष्यते । तच्चो त्तरार्थं न त्विहान्वेति पृथग्योगकरणसामर्थ्यात् । अन्यथा हि "पुषादि घुताद्द्लदित्सर्तिशास्त्यर्तिभ्यः" इत्येव पठेत । एवं हि पृथग्विभक्तिनिर्देशश्चकारश्व न कर्त्तव्यो भवति । अथवा मण्डूकप्लुत्या उत्तरत्रैव पर स्मैपदग्रहणं सम्भन्त्स्यते । यद्वा 'इहानुकृष्टं सत् परस्मैपदे दृष्टो यःशासि' इति व्याख्येयम् । “शास इदहलोः " ( पा०सू०६-४-३४) इति सूत्रे कैयटग्रन्थोऽप्येवं नेयः । सर्ति-असरत् । 'ऋदृशोऽङि" (पा०सु०७-४ १६) इति गुणः । अशिषत् । " शास इदहलोः " ( पा०सु०६-४-३४) "शासिवसि” (पा०सू०८ - ३ - ) इति षत्वम् । आरत । समन्यवो यत्समरन्त सेनाः । " समो गभ्युच्छिभ्याम्" ( पा०सू०१-३-२९) "अर्त्तिरशिभ्यश्च" (का०वा० ) इति वार्त्तिकेनात्मनेपदम् । " बहुलं छन्दस्यमाङ्योगेऽपि” (पा०सू०६-४-७५ ) इत्यडभावः । इत्यत्र समारन्त ममाभीष्टाः सङ्कल्पास्त्वय्युपागते । इति भट्टिः । यन्तु “समो गम्यृच्छि” (पा०सू०१-३-२९) इत्यत्र भाष्ये सिजुदाहरणं तद्भवादिकस्येति तत्रैवावोचाम । इरितो वा (पा०सू०३-१-५७ ) ॥ इरितो धातोश्च्लेरङ् वा स्यात् परस्मैपदेषु । अभिदत् । अभैत्सीत् । परस्मैपदेषु किम् ? अभिप्त । स्वरितत्त्वात्तङ् । जस्तम्भु म्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ( पा०सु०३-१-५२ ) ॥ एभ्यइब्लेरङ् वा । अजरत्, भजारीत् । स्तम्भुः सौत्रो धातुः ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy