________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
२०५
षष्ठी । कथन्तर्हि "कलहंसराममहितः कृतवान्" इति भट्टिः ? "मह पू· जायाम्” (स्वा०प०७३०) रामस्य महित इत्यर्थः तथा 'राजपूजितः ' इत्यादि । अत्राहुः । 'केन च पूजायाम्'' (अष्टा०सु०२-३-१२) इत्यादिषु कारकषष्ठया एव समासो निषिध्यते । यदा तु कर्त्रादेरेव शेषत्वविव क्षया षष्ठी तदा भवत्येव समासः । स्वरे च विशेषः - कारकषष्ठधा स मासे हि कृदुत्तरपदप्रकृतिस्वरः, शेषषष्ठ्या तु समासान्तोदात्तत्वमि ति । अनुन्यासकारस्त्वाह-यदा वर्तमाने कस्तदा षष्ठी समासनिषेधश्च । यदा तु भूते कस्तदा कर्तरि तृतीया । यथा " पूजितो यः सुरासुरैः" इति । तस्याः "कर्तृकरणे कृता बहुलम् " (अष्टा०सू०२ - १ - ३२) इति समासः । न च तक्रकौण्डिन्यन्यायाद्वर्त्तमाने क्त इह भूते के बा धते इति वाच्यम् (१) तेनेत्यधिकारे उपज्ञातइति निर्देशेनाबाधज्ञापनात् । न च ज्ञा(२)नार्थमात्रविषयकं ज्ञापकम्, उदाहृतप्रयोगानुरोधेन सामान्यविषयकत्वस्यैव न्याय्यत्वादिति ।
अधिकरणवाचिना च (अष्टा०सू०२-२-१३) केन षष्ठी न समस्यते इदमेषामासितं गतं भुक्तं वा । "कोऽधिकरणे च " (अष्टा०सू०३-४-७६) इति कः । " अधिकरणवाचिनश्च' (अष्टा०सू०२-३-६८) इति कर्तरि षष्ठी । "अधिकरणे च" इत्येव सिद्धे वाचिग्रहणं स्पष्टार्थम् । कथं तर्हि 'किवृत्तं ' 'यद्वृत्तम्' इति ? अत्राहुः - नायमधिकरणे कः, किन्तु भावे । किमो वृत्तं यस्मिन्निति व्यधिकरणपदो बहुव्रीहिः । यद्वा, कर्त्तरि कः । किमो वृत्तं निष्पन्नमिति च विग्रहः ।
कर्मणि च (अष्टा०सु०२-२-१४) । चकार इतिशब्दार्थः । कर्मणीतिशब्दमुच्चार्य विहिता परिशेषिता वा या षष्ठी सा न समस्यते । चि• त्रङ्गवान्दोहोऽगोपेन । यद्यनेन 'कर्मषष्ठीमात्रं न समस्यते' इत्यभिप्रेतं स्या चर्हि तृजकाभ्यां (३)निषेधं नारभेत । यत्र हि कर्तरि तृजकौ तत्र कर्मणिष भाव्यम् । 'शब्दानुशासनम्' इत्यादी यथा न समासनिषेधस्तथोक्तं पस्पशायाम् ।
( १ ) "तेनैकदिक्" (अष्टा०सू०४-३-११२) इति तृतीयाधिकारे "उपज्ञाते" (अष्टा०सु०४-३ - ११५) इति तृतीयान्ताद् उपज्ञातेऽर्थे शैषिकप्रत्ययविधायकंन निर्देशेनेत्यर्थः । अन्यथा भूते तस्य बाधे षष्ठया एव लाभादिति भावः ।
(२) ज्ञानार्थकधातुभ्य एव प्राप्तस्य भूते तस्य वर्तमानक्तेना बाध इति यावत्
·
( ३ ) "तुकाभ्यां कर्तरि" (अ०पू०२-२-१५) इति यावत्