________________
विधिशेषप्रकरण तत्पुरुषप्रकरणम् ।
१७३
यया करणस्य सम्बन्धः । तस्माद्यत्रोत्तरपदे क्रिया न गम्यते तत्रापि तत्कृतत्वे सति यथा स्यात् भोजनादिद्वारके सामर्थ्यं मा भूदिति तः त्कृतग्रहणम् | गुणवचनेनेति किम् ? गोभिर्वपावान् । गोसम्बन्धिदध्यादिभोजनाद्देवदत्तस्य वपावत्वं पविरत्वमित्यस्ति तत्कृतत्वं न त्वसौ गुणवचनः । वचनग्रहणं किम् ? यावता अर्थेन समास सम्भवा तद्वाची ग्रहीष्यते । अत्राहुः, गुणमुक्तवान् गुणवचनः । "कृत्यल्युटो बहुलम्” (अष्टा०स्तू०३-३-११३) इति भूते कर्तरि ल्युट् । गुणमुकवता सम्प्रति गुणोपसर्जनद्रव्यवाच्चिनेत्यर्थः । तेन 'घृतेन पाटवम्' इति गु 'णमात्रनिष्ठेन न भवतीति । गुणश्चात्र 'सत्वे निविशतेऽवैति" इति व क्ष्यमाणो गृह्यते ।
पूर्वसदृशसमोनार्थ कलह निपुणमिश्र श्लक्ष्णैः (अष्टा०सू०२-१-३१) । एतैः सह तृतीयान्तं प्राग्वत् । अस्मादेव वचनात्पूर्वादियोगे तृतीया हेतौ वा द्रष्टव्या । मासेन पूर्वः मासपूर्वः । मात्रा सदृशः मातृसदृशः । मातृसमः । इह समसदृशाभ्यां योगे “तुल्यार्थैः” (अष्टा०सू०२-३-६२) इति तृतीया ।
स्यादेतत् । तुल्यार्थयोगे पक्षे षष्ठयप्यस्ति । ततः षष्ठीसमासेनैव सिद्धे किमिह सदृशग्रहणेन । न च तत्पुरुषे तुल्यार्थतृतीया" (अष्टा० सू०६-२-२ ) इति पूर्वपदप्रकृतिस्वरार्थे तत् "सदृशप्रतिरूपयोः सादृश्ये” (अष्टा०सू०६-२-११) इति, तत् सिद्धेः । न च तत्र सदृशग्रहणमेव मास्त्विति वाच्यम्, षष्ठीसमासपक्षे अन्तोदात्तत्वं वारयितुं तस्वीकारावश्यम्भावात् । न चानभिधानात्पष्ठीसमास एव मास्त्विति वाच्यम्, दास्याः सदृश इति रूपासिद्धिप्रसङ्गात् । इह हि "बष्ठया आक्रोशे" (अष्टा०सु०६-३ - २१) इत्यलुक्समासः स्वीकृतो भाष्ये । नन्वे मपि तु तृतीयान्तेन समासार्थ प्रकृते सदृशग्रहणमस्तु - विद्यया है. तुना सहशो विद्यासदृश इति । नह्यत्र “तुल्यार्थैः' (अष्टा०सू०२-३-६२) इति षष्ठी लभ्यते, प्रतियोगिन्येव तद्विधानादिति चेत् ? न, तत्कृतत्वापूर्वेणैव सिद्धेः । यो हि विद्यया सदृशः तस्य विद्याकृतं सादृश्यमस्तीति । सत्यम्, प्रत्याख्यातमेवेदं षष्ठे वार्तिककृता । ऊनार्थे - माषोनं कार्षापणम् । माषविकलम् । पूर्वसूत्रे अर्थशब्देन समासस्य साधितत्वा दिह अर्थग्रहणमभिधेय निर्देशार्थम् । तच्च ऊनशब्देनैव सम्बध्यते न तु पूर्वादिभिः । अत एव समसदृशौ पृथगुपान्तौ । वाक्कलहः । आचार निपुणः । गुडमिश्रः । आचारश्लक्ष्णः ।
मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम् । गुडसंमिश्रा धानाः । "मि
·