________________
१६६ शब्द कौस्तुभद्वितीयाध्यायप्रथमपादे द्वितीयान्हिके
त्यल्पपर्यायाः । मात्रार्थे वर्त्तमानेन प्रतिना सह सुबन्तं समस्यते सोऽव्ययीभावः । शाकस्य लेशः शाकप्रति । सूपप्रति । मात्रार्थे किम् ? वृक्षं प्रति विद्योतते विद्युत् । सुप्ग्रहणमव्ययाधिकारनिवृत्यर्थम् । अन्यथा हि 'दोषामन्यमहः ' 'दिवामन्या रात्रिः' इति वृत्तिविषये सत्त्वप्रधानता दर्शनात्तादृशाव्ययान्येव मात्रार्थे प्रतिना समस्येरन्निति भावः ।
अक्षशलाका संख्याः परिणा (अष्टा०सु०२ - १ - १० ) । एताः परिणा समस्यन्ते सोऽव्ययीभावः । द्यूतकारव्यवहारे चायं समास इष्यते । पश्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति । तत्र यदि सर्वे उत्तानाः पतन्त्यवाञ्चो वा तदा पातयिता जयत्यन्यथा तु जीयते । तत्र पराजय एवायं समासः । अक्षेण विपरीतं वृत्तं अक्षपरि । शलाका परि । एकपरि । द्विपरि । त्रिपरि । परमेण चतुः परि । पञ्चसु त्वेकरूपेषु जय एव भविष्यति । अक्षादयस्तृतीयान्ताः पूर्वोक्तस्य यथा न तत् ॥ किं तव व्यवहारे स्यादेकत्वेऽनशलाकयोः ॥ परमेणेत्यादेर्वृत्तिग्रन्थस्यायमर्थः । परमेण अतिशयेनान्यतः परं पञ्चपरीति न भवतीति यावत् । अस्योपपादनाय श्लोकः - पञ्चस्विति । एकरूपेष्विति । “पुमान् स्त्रिया” (अष्टा०सू०१-२-६७ ) इत्येकशेषः । तृती· यान्ता इति । कर्तृत्वादिति भावः । पूर्व परिभाषितस्य यथा एकरूपं वर्त्तनं सम्प्रति यदि तन्नेत्यर्थः । विपरीतवर्तने परिणा द्योत्ये समास इति यावत् । एकत्वे इति । अन्यथा 'राजपुरुषः ' इत्यादाविवाभेदेकत्वमवगम्येत न तु शुद्धमेकत्वम् । प्रकरणादिना द्वित्वाद्यवगमे च प्रसज्येत । भवद्भिरामवसर प्रदानाय वचांसि नः ।
इत्यादाविवेति भावः ।
विभाषा (अष्टा०सु०२-१-११) । अधिकारोऽयम् ।
I
अपपरिबहिरञ्चवः पञ्चम्या (अष्टा०सु०२-१-१२) । एते पञ्चम्या वा समस्यन्ते सोऽव्ययीभावः । अपहरि संसारः, अपहरेः । परिहरि, परिहरेः । बहिर्ग्रामम्, बहिर्ग्रामात् । प्राग्ग्रामम् । प्राग्ग्रामात् । इहापपरी परस्परसाहचर्याद्वर्जनार्थौ । तौ च कर्मप्रवचनीयौ " अपपरी वर्जने" (अष्टा सु०१–४–८८) इति । तद्योगे पञ्चम्यैव भाग्यम् – “पञ्चम्यपापरि• भिः” (अष्टा०सु०२-३ - १० ) इति । अञ्चतिरप्यपपरिसाहचर्यादव्ययमेव गृह्यते तद्योगेऽप्यञ्चूत्तरपदलक्षणया पञ्चम्या भाव्यम् । इत्थंस्थिते पञ्चम्येति ज्ञापनार्थ बहिर्योगे षष्ठ्यर्थे पञ्चमी भवतीत्यस्य ।
-
आङ् मर्यादाभिविध्योः (अप्रा०सु०२-१-१३) । एतयोराड़ पञ्चम्य