________________
विधिशेषप्रकरणे द्वित्वातिदेशसूत्रम् ।
फल्गुनीप्रोष्ठपदानाच नक्षत्रे [अष्टा०सू०१-२-६०] । द्वयोरित्यनु. कर्षाद् द्वित्वं बहुत्वप्रयुक्त कार्य वा विधीयते । तेन विशेषणेऽपि सि. द्धम् । पूर्व फल्गुन्यौ पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे पूर्वाः प्रोष्ठपदाः । नक्षत्रे किम् ? फल्गुन्यौ माणविके। फल्गुन्योर्जाते इत्यर्थः । “फल्गु. न्यषाढाभ्यां टानौ” (काभ्वा०) इति टः। टिस्वान् ङोप । एकस्यान्तु तारायां नेमौ शब्दो प्रयुज्यते । उद्भूतावयवभेदं समुदाय एव निक ढत्वात् । सूत्रे तु नक्षत्रे इति प्रथमाद्विवचनं नक्षत्रेयद्यभिधीयते इत्यर्थात्।
छन्दसि पुनर्वस्वोरेकवचनम् [अष्टा०९०१-२-६१] । द्वयोरेकवचनं वा स्यात् । पुनर्वसुर्नक्षत्रमदितिर्देवता । पुनर्वसु वा। लोके तूभृताव. यवसमुदाय निरूढत्वाद् द्विवचनमेव । गाङ्गताविव दिवः पुनर्वसू ।
विशाखयोश्च [अष्टा०सू०१-२-६२] । प्राग्वत । विशाखा नक्षत्रमि. न्द्राग्नी देवता । पक्षे विशाखे । छन्दसीत्यनुवृत्तौके 'विशाखे' इत्येव । अमरस्तु-"राधाविशाखा" (अ०को०१-३-२२) इति प्रयुञ्जानो द्विवचः ननियमं नेच्छति । खुत्र तुदासीनम् ।
तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् [अष्टा० सु० १-२-६३] । छन्दसीति न सम्बध्यते पूर्वत्र चकारेणानुकृष्टत्वात् । एतदर्थ एव हि पूर्वत्र योगविभागः । तिष्य पकः । पुनर्वसू दौ। तेषां द्वन्द्वो बव्हर्थः । तत्र बहुत्वं द्वित्ववद्भवतीत्यतिदेशोऽयम्। तिष्यपुन. र्वसु उदितौ। तिष्यपुनर्वसू इति किम् ? विशाखानुराधाः। नक्षत्रति किम् ? तिष्यपुनर्वसवो मागवकाः। तिष्यपुनर्वसुशब्दाभ्यां "नक्षत्रेण युक्तः कालः" (अष्टा०सू०४-२-३) इत्यण "लुबविशेषे" (अष्टा०२० ४-२-४) ततो जातार्थे "सन्धिवलादि" (अष्टा०पू०४-३-१६) सुत्रेणाण । तस्य "श्रविष्ठाफल्गुन्यनुराधा" (अष्टा सु०४-२-३४) इत्यादिना लुक् माणवकवृत्तिरयं द्वन्द्वो न तु नक्षत्रवृत्तिः । न चायं गौणः । यौगिकत्वात् । ननु नक्षत्रे इत्यनुवृत्या सिद्धमेतत् । किं पुनर्नक्षत्रग्रहणेन । अत्र भाष्यम्-"पर्यायाणामपि यथा स्यात्" इति। तस्याऽयं भावः-तिष्यपुनर्वस्वोः शब्दयोरभिधेये नक्षत्रे वर्तमानो यो नक्षत्रश.
दानां द्वन्द्व इति व्याख्यानात् । पुष्यपुनर्वसू सिध्यपुनर्वसु इत्यपि सिध्यतीति । स्यादेतत्-यथा भावे चाकर्मकेभ्यः" (अष्टा०स० ३-४-६९) इत्यकर्मकश्रुत्यान्तरङ्गं द्रव्यकर्म निषिध्यते न तु बहिरङ्ग कालादि कर्म तथान्तरङ्गस्य कालस्य व्यावृत्त्या अहवस्तिष्यपुनर्वसवोऽतिक्रान्ता इत्यादः सिद्धावपि माणवकस्य बहिरङ्गस्य व्यावृत्तये पुनर्नक्षत्रग्रहण. मस्तु । यद्वा-तिष्यपुनर्वस्वोरिति योगं विभज्य देशान्तरस्थमपि