SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३६ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे द्वितीयान्हिके ४-२-७०) इति तद्धितो नैवोत्पद्यते किं लुपो विधानेनेत्यर्थः । योगप्रमाणे च तदभावेऽदर्शनं स्यात् [ अष्टा०सू० १-२-६५ ] | च कारो ह्यर्थे । यदि हि योगस्यावयवार्थस्येदं प्रमाणं बोधकं स्यात्तदा तदभावे न दृश्येत । दृश्यते च सम्प्रति । विनैव क्षत्रिययोगं जनपदे पञ्चालशब्दः । न च भूतपूर्वगतिः । क्षत्रिययोगाद्देशे देशयोगाद्वा क्षत्रिये शब्द इत्यत्र विनिगमकाभावेन वैपरीत्यस्यापि सुवचत्वापत्तेरिति भावः । अतोऽक्षादिवन्नानार्था एवैते इति तत्त्वम् । प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् [अष्टा०सु०१-२ - ५६ ] । प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमपि अशिष्यं कुतः ? अर्थस्य लोकत एव सिद्धेः । आख्यातस्य क्रियाप्रधानतया व्यभिचाराश्चेत्यर्थः । कालोपसर्जने च तुल्यम् [अष्टा०सू० १-२-५७ ] | अतीताया रात्रेः पश्चार्द्धन आगामिन्याः पूर्वार्द्धेन च सहितो दिवसोऽद्यतनः । विशेषणमुपसर्जनमित्यादिक्रमेण काल उपसर्जनं च पूर्वाचार्यैः परिभाषितं तत्रापि तुल्यम् । अशिष्यत्वं समानमित्यर्थः । लोकप्रसिद्धत्वादेवेति भावः । जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् [ अष्टाऽसू० १-२-५८ ] ब्राह्मणाः पूज्याः । ब्राह्मणः पूज्यः । एकोऽप्यर्थो वा बहुवदित्यतिदेशाद्विशेषणादपि सिद्धम् । बहूनां वचनं बहुवचनं प्रतिपादनमिति व्या• ख्यानाच्चातिदेशः फलितः । अस्मदो द्वयोश्च [अष्टा०सू० १-२-५९ ] | एकत्वे द्वित्वे च विवक्षि तेऽस्मदो बहुवचनं वा स्यात् । वयं वूमः । पक्षे अहं ब्रवीमि । आवां चूच इति वा । सविशेषणस्य प्रतिषेधः [का० वा०] । पटुरहं ब्रवीमि । कथं तर्हि "त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः” (वै०रा० २३) इति भर्तृहरिः । अश्रोशतत्वस्य विधेयत्वाद्भवत्येव । अनुवाद्यवि -शेषण परत्वात्प्रतिषेधस्येति हरवत्तः । भाष्ये त्वतत्सूत्रं प्रत्याख्यातम् । तथाहि महङ्कारावच्छिन्नेभ्यस्तानाञ्चक्षुरादीन्द्रियाणां वचादात्म्याद हमुलखगोचरता भेदाभेदप्रतीतिश्च । अहं शृणोमीति वन्मम श्रोत्रं शृणोतीत्यपि व्यवहारात् तत्र चक्षुरादीनां बहुत्वाद्भेदस्वातन्त्र्ययोर्वि वक्षायां 'वयं ब्रूमः' इति सिद्धम् । अभेदमात्रविवक्षायां तु एकवचनम् । न च गोणता । 'गौरोऽहम्' इत्यादीनां यावद्व्यवहारं बाधाभावात् । एतेन “पुष्यादिगुरावेकेषाम्” इति वृत्तिकारेण पठितमपि गतार्थम् । त्वं गुरु गुरव इत्यस्योक्तरीत्या सिद्धेः । अत एव "आचार्याः कथयन्ति" इत्यादि लौकिकप्रयोगोऽपि सङ्गच्छते ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy