SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ विषिशेषप्रकरणे बहुव्रीहिप्रकरणम्। २१५ म चान्तरालस्यान्यपदार्थत्वात्पर्षेणैष सि(१)द्धमिति चेत ? न, अप्रथमार्थे तदित्युक्तत्वात् । वैयधिकरण्याच्च "विभाषा दिक्समासे" (अष्टा०स०१-१-२८) इस्यत्र प्रतिपदोकस्यास्यैव ग्रहणार्थमपीदम् । तेन या पूर्वा सोसरा यस्य मुग्धस्य तस्मै---'उत्तरपूर्वाय' इत्यत्र न वि(२)कल्पः । कबभावार्थ च । तथा हि, "शेषाद्विभाषा'' (अष्टा०सू०५-४-१५४) इत्यत्र तन्त्रावृत्त्याचाश्रयणेन एकः शेष उपयुक्तादन्यः, अपरः शेषा. घिकारः तेनोत्तरपूर्वादोन कप, इह शेषग्रहणाननुवृत्तः । द्वितीयशे. वग्रहणाचं प्रियपथा' प्रियधुरः' इत्यादौ न कस् । यत्तु "तत्रतेनेदम्" (अष्टा०सू०२-२-२७) इति सूत्रे कैयटेनोक्तं-"शेषाधिकार एव गृह्यते, न तूपयुक्तादन्यः" इति । तस तत्रत्यभाष्यस्योक्तिसम्भवमाप्रपरम् । नोमनाहणं रूढयर्थम् । इह मा भूत्-ऐन्याश्च कौबेर्याश्चान्त. रालमिति । तत्र सेनेदमिति सरूपे (अष्टा सू०२-२-२७) सप्तम्यन्ते ग्रहणविषये सरूपे परे तृतीयान्ते च प्रहरणविषये इदं युद्धमित्यर्थे समस्यते कर्मः व्यतिहारे स बहुव्रीहिः । इतिकरणालौकिकविवक्षानास्पर्यकात् ग्रहणप्र. हरणकर्मव्यतिहारयुद्धानि लभ्यन्ते । गृह्यतेऽस्मिन्निति ग्रहणं केशादि, प्रहरणं दण्डादि, कर्मव्यतिहारः परस्परग्रहणं परस्परप्रहरणं च । के. शेतु केशेषु गृहीत्या युद्धं प्रवृत्तं केशाकशि । मुष्टीमुष्टि । दण्डैश्च द. ण्डैश्च प्रहृत्य युद्धं प्रवृत्तं दण्डादण्डि । "इच् कर्मव्यतिहारे' (अष्टा. सू०५-४-१२७) इतीच्समासान्तः । तदन्तमव्ययं, तिष्ठद्गुप्रभृति. चिच्प्रत्ययस्य पाठन अव्ययीभावत्वात् । “अन्येषामपि दृश्यते" (मा०स०६-३-१३७) इति पूर्वपदस्य दीर्घः । अत एव 'मुष्टामुष्टि' पति प्रामादिकम् । न च सूइदं शब्दात् प्राक् आकार:प्रश्लिप्यतामिति वाच्यम् , भाज्यकैयाधसम्मतत्वात् 'अस्यसि' इत्यादापतिप्रसाच्च । परिशि तु "माच गुजिना" इति सत्रितम् । गुणोऽस्त्यस्येति गुणी मामीति व्याख्याय 'मुष्टामुष्टि इत्युदतं, तपाणिनीयम्। सरूपग्रहणं किम् ? हलेव मुसलैश्च युद्धम् । इदमपि सूत्रे वैयधि. करण्याथै प्रथमाविभक्त्यर्थ एकशेषबाधनार्थ च । कबभावार्थ. चेति तु भाज्येऽभ्युच्चयमात्रं, शेषग्रहणस्य प्रागनुक्तपरतायाः पञ्चमे स्पष्टत्वात् । (१) अस्य 'समसनम्' इत्यादि । (२) सर्वनामसंज्ञाविकल्पः ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy