SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २१६ शब्दकौस्तुभद्वितीयाध्यायद्वितीयपादे द्वितीयान्हिके तेन सहेति तुल्ययोगे- (अष्टालसू०२-२-२८) । सहेत्येततुल्ययोगे धर्तमानं तृतीयान्तेन सह वा समम्यते स बहुबाहिः। सपुत्र आगनः । सह पुत्रः। "वोपसर्जनस्य' (अष्टा सू०६-३-८२) इति सभावः । नन्वत्र पिता प्रधानमन्यपदार्थः । सत्यम् । व्यधिकरणयोः प्रथमार्थं च यथा स्यात्, कप च मा भूदित्येवमयं वचनम् । तुल्ययोगति किम् ? सहैव दशभिः प्रभारं वहति गर्दभी। विद्यमानतावाची सहशब्दः । दशसु पुत्रेषु विद्यमानेवित्यर्थः। तुल्ययोगवचनं प्रायिकम् , झापकात । यदयं "विभाषा साका" (अष्टाम:३-२-११४) “विभाषा सपूर्वस्य"(अष्टा०स०४-१-३४)इत्यादि निर्दिशति । तेन 'स(१)कर्मकः 'सलोमकः' इत्यादि सिद्धम् । वायें छन्दः । प्रागनुक्तसमासमने सुबन्तं चार्थ वर्तमानं वा सम. स्थते, स छन्दः । समुच्चयावाचयेतरेतरयोगसमाहाराश्चार्याः । परस्परनिरपेक्षस्यानेकस्य कस्मिन्प्रति सम्बन्धिन्यन्वयः समुच्चयः। पचा "महरहनयमानो गामश्वं पुरुष पशु वैवस्वतो न तृप्यति सुराया दव दुर्मदः" इति, अन नयतिक्रियायामकस्यां गवादीनां समुशयः । गम्यमानत्वानु चशब्दस्याप्रयोगः।। यदा तु एकस्य प्राधान्यमितरस्यानुषङ्गिकता तदाऽन्वाचयः। यथा भिक्षामट, गां चामयेति । अत्र हि अदर्शनाद्दामनानयन्नपि भि. क्षामटत्येव । अनटस्तु भिक्षां न गामानयति । तथा अटन्नपि नान्विष्य गामानयति । मिलितानामन्वय इतरेतरयोगः। समूहः समाहारः। तत्र समुच्चयान्वाचययोर्न समासः, असामः ात् । एकार्थीभावे हि सति 'पुष्पवन्तौ पश्य' इत्यादाविव एकप. दोपाचौ मिलितावेव मन्वियातां, न तु प्रत्येकम् । ध(२)वखदिरौ पा(३)ग्हषदम् । शेषः किम् ? नीलोत्पलम् । इह हि एकस्मिन्र्धामणि अनेकधर्मस. मुच्चयाद् द्वन्द्वः स्यात् । न चेष्टापत्तिः, पटुश्चासौ खाश्चेत्यादावपि द्वन्द्व सति"द्वन्द्वे घि" अष्टा०म०२-२-३२) इत्यादिनियमापत्तेः ।"विशे. (१) विद्यमानतावाची सहशब्दः । एवञ्चात्र कर्मादिसमानाधिः करणः सहशब्द इति तृतीयाया असम्भवेनानेन समासाप्राप्तौ "अनेक मन्यपदार्थे' इति समासः । अत एवात्र कप सिद्ध इति बोध्यम् । (२) इतरेतरयोगे समासः। (३) समूहः समासार्थः ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy