________________
विधिशेषप्रकरणे निपातसज्ञाप्रकरणम् । १३९ अभिवादिदृशोरात्मनेपदे वेति वक्तव्यम् ॥ अभिवादयतेरप्राप्त वि. भाषा। दृशेस्तु बुद्ध्याद्यर्थत्वादुपसङ्ख्यानाद्वा प्राप्ते । अभिवादयति गुरुं देवदत्तः, अभिवादयते गुरुं देवदत्त देवदत्तेन वा । "णिचश्च" (अष्टा०९०१-३-७४) इत्यात्मनेपदम् । परस्मैपदे तु 'अभिवादयति गुरुं देवदत्तेन' । दर्शयते राजानं भृत्यान् भृत्यैर्वा । कर्मसंज्ञाभावपक्षे कर्मान्तरस्याभावात् "णेरणौ" (अष्टा०स०१-३-६७) इत्यात्मनेपदमन्यत्र तु "णिचश्च" (अष्टा सु०१-३-७४) इतीति प्राञ्चः । वस्तुतस्तु "णिचश्च" इत्येव युक्तम् । “णेरणौ" इत्यस्य तु नायं विषयः, णिज्वाच्यप्रयुक्तिभे. दादिति तत्रैवोपपादितम् ।
स्वतन्त्रः कर्ता (अष्टासु०१-४-५४) । क्रियायां स्वातन्त्र्येण विव. क्षितोऽर्थः कर्ता स्यात् । धातूपात्तव्यापाराश्रयत्वं स्वातन्त्र्यम् । आह च
धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते । इति । __ कर्मकर्तर्यप्यस्तीदम् । फलव्यापारयोर्वैयधिकरण्यमात्रस्य पचावी. सर्गिकस्य परं त्यागः । विशकलितशक्तिपक्षे विशिष्टशक्तिपक्षे चेदं तुल्यम् । निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितमिति पक्षे तु प्रधान. भूतधात्वर्थ एवेह क्रिया, धातुत्वं तु भूतपूर्वभावनार्थत्वात् । एतेन का. रकाणां क्रियान्वयनियमोऽपि द्वेधा व्याख्यातः । देवदत्तः पचति । स्था. ली पचति । अनन्यलभ्यस्य शब्दार्थत्वादाश्रयो लकारार्थः । देवदत्तेन पच्यते । देवदत्तरूपो य आश्रयस्तद्विशिष्टो विक्लित्त्यनुकूलव्यापार इत्यर्थः । वैशिष्टयं चाधेयतारूपं संसर्गमर्यादया भासते ।
तत्प्रयोजकोहेतुश्च (अष्टा०सू०१-४-५५) । तस्य कर्तुः प्रयोजको हेतुसज्ज्ञः स्याच्चाकर्तृसज्ञः । संज्ञासमावेशार्थश्चकारः। कुर्वन्तं प्रेर. यति कारयति हरिः । हेतुत्वात्तद्यापारे "हेतुमति च" (अष्टासु०३-१२६) इति णिच् । कर्तृत्वाकर्तरि लकारः ।
॥ इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य
चतुर्थे पादे तृतीयमान्हिकम् ॥
प्राग्रीश्वरानिपाताः (अष्टा०सु०१-४-५६) । “अधिरीश्वरे' (अष्टा० सू०१-४-९७) इत्यतः प्राक् प्राङ् निपाता इत्यधिक्रियते, तन्त्राद्याश्र. यणात् । तेन पूर्व निपातसमाः सन्तः पश्चात्यादिसञ्ज्ञा इत्यर्थात्संज्ञा. समावेशः सिध्यति । अन्यथा गत्युपसर्गकर्मप्रववनीयसझानां निपा. तसायाश्च पर्यायः स्यात् । तन्त्रादौ प्रमाणं तु प्राग्ग्रहण सामर्यमेव ।