________________
૪૧૨
शब्द कौस्तुभतृतीयाध्याय द्वितीयपादे प्रथमान्हिके
शितो भवत्यनेन आशितम्भव ओदनः । यावता ओदनेन अतिथ्यादिभजितो भवति स एवमुच्यते । भावे- आशितस्य भवनमाशितम्भवः । इद्द "वासरूप" (०सू०३ - १ - ९४ ) विधिना ल्यूडपि भवति । 'आशि तभवनम्' इति । घञ् तु बाध्यते एव, सरूपत्वादित्याहुः !
न चात्र "तल्युट्तुमुन्खलर्थेषु वासरूपविधिर्न” ( प०४०७०) इति निषेधः : शङ्कयः, यत्र हि घञादेरपवादत्वेन ल्युट् प्रसक्तः, उत्सर्ग नित्यं बाधते न तु विकल्पेनेति तदर्थः । इह तु ल्युटोऽपवादोऽयं खच् । तत्र वासरूपन्यायो निर्बाध एव । 'आशितभवनम्' इत्युदाहरतो जयादिश्यस्य सम्मतश्चेति दिक् ।
संज्ञायां भृतृवृजिधारिसहितपिदमः (पा०सु०३-२-४६ ) ॥ भृप्रभृ. तिभ्योऽष्टभ्यः यथायोगं कर्मणि सुबन्ते चोपपदे खच् स्यात्संहायाम् । विश्वं बिभर्तीति विश्वम्भरः कैटभजित् । "रसा विश्वम्भरा स्थि: रा'' (अ०को०२-१-२) । रथन्तरं साम । रथेन तरतीति व्युत्पत्तिमात्रम्, स्वरसंस्कारावग्रहादिसिद्ध्यर्थम् । न त्वत्रावयवार्थानुगमोऽस्ति, "रथः स्तरमाजभारा वसिष्ठः" इत्यत्र हि रथमित्यवगृह्णन्ति । अन्तोदात्तं चाश्रीयते । अखण्डत्वे तु अवग्रहो न स्यात् । " नन्विषयस्व" ( फि०सु० २६) इत्याद्युदात्तञ्च स्यात् । पतिवरा कन्या । शत्रुञ्जयो हस्ती । युग. स्वरः पर्वतः । शत्रुंसहः । शत्रुन्तपः । अरिन्दमः । अन्तर्भावितण्यर्थोऽत्र दमिः । संज्ञायां किम् ? कुटुम्बं बिभर्तीति कुटुम्बभारः ।
".
4
गमश्च (पा०सु०३-२-४७) ॥ मस्मात् खच् स्यात्कर्मण्युपपदे संज्ञायाम् । सुतङ्गमः । पूर्वसूत्रे एव गमिनकः । उत्तरसूत्रे गमेरेवानुवृत्तियथा स्यात्, भृत्प्रभृतीनां मा भूदिति ।
अन्तात्यन्ताध्वदुरपार सर्वानन्तेषु डः (पा०सु०३-२-४८) ॥ 'संज्ञायाम्' इति निवृत्तम् । सप्तसु कर्मसूपपदेषु गमेर्डः स्यात् । अन्तं गच्छ तीत्यन्तगः । अत्यन्तगः । अध्वगः । दुरगः । पारगः । सर्वगः । अन: न्तगः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ।
I
सर्वत्रपन्नयोरुपसंख्यानम् (का०वा० ) ॥ सर्वत्रगः । पनं पतितं यथा स्यात्तथा गच्छतीति पन्नगः । 'पन्नम्' इति क्रियाविशेषणं पठ्यते कान्तम् । उरसो लोपश्च (का०वा० ) ॥ उरसा गच्छतीत्युरगः ।
सुदुरोरधिकरणे (का०वा० ) ॥ सुखेन गच्छत्यत्रेति सुगः । दुर्गः । कर्मणि तु खलेव । सुगमः । दुर्गमः ।
निरो देशे (का०वा० ) ॥ निर्गो देशः ।
अन्यत्रापि दृश्यते इति वक्तव्यम् (का०वा० ) । ग्रामगः । गुरुतल्पगः ।