________________
विधिशेषप्रकरणेऽव्ययीभावसमासप्रकरणम् । १६३ पाणिनिस्तु मात्रालाघवमभिप्रेत्य विभक्तिशब्दं प्रायुक्त । निपातेना. भिहितत्वात प्रथमान्तेनैवायं समासः षष्ठ्यन्तेन वेत्यपि मतद्वयं परि. शिष्टे स्थितम् । तदपि विभक्तिग्रहणे ऽधिकरणग्रहणे चाविशिष्टम् ।
समीपे-कृष्णस्य समीपमुपकृष्णम् । अव्ययीभाव इत्यन्वर्थसज्ञा. श्रयणादसत्त्वरूपाव्ययार्थप्राधान्यएवायं समासः। समीपवर्तिप्राधान्ये तु बहुव्रीहिं वक्ष्यति "संख्ययाऽव्ययासन्न" (अष्टा०सू०२-२-२५) इति । उपदशा इति यथा । ननु 'समया प्राम' 'निकषा लङ्काम' 'आराद्वनात्' इत्यादावतिप्रसङ्ग इति चेत् ? अत्राह रक्षितः-"अभितः परितः सम. यानिकषान्यारादिति द्वितीयापञ्चम्योर्विधानसामर्थ्यान्नाव्ययीभावः" इति । यत्तूक्तं दुर्घटवृत्तौ-'चित्रस्य ग्रामं समया' इत्यादौ सापेक्षत्वाद. समासे चारितााद्विभक्तिविधानस्य सामर्थ्य नास्ति इति । तन्न, समासस्य नित्यतया "वृत्तस्य विशेषणयोगो न" इत्यस्यैव प्रवृत्यापत्तेः। अन्यथा स्थूलस्य कुम्भस्य कार इत्याद्याप स्यात । ___ समृद्धौ तु-मद्राणां समृद्धिः सुमद्रम् । उत्तरपदार्थप्राधान्ये तु "कु. गति" (अष्टा०स०२-२-१८) इति तत्पुरुषः । समृद्धा मद्राः सुमद्रा इति यथा।
न्यूद्धौ-दुर्यवनम् । न चार्थाभावेनेह सिद्धिः । येन समस्यते तदीया. भावे हि समासः । इह तु यवनानां नाभावः, किं तु तदीयाया वृद्धः। ____ अर्थाभावे-निर्मक्षिकम् । अविघ्नम् । संसर्गाभावेऽयं समासः, न त्व. न्योन्याभावेऽपि, अर्थग्रहणसामर्थ्येन समस्यमानपदजन्यप्रतीतिविशे. ध्यविरोधिन एवाभावस्य ग्रहणात् । अन्योन्याभावस्य प्रतियोगिताव. च्छेदकेनैव सह विरोधात् । तस्य च प्रकारत्वेऽप्यविशेष्यत्वात् । ये तु वदन्ति-'घटः पटो न' इत्यत्रापि पटत्वात्यन्ताभाव एवार्थः आकृत्य. धिकरणन्यायेन जातेः पदार्थत्वादिति, तेषामपि मतेऽर्थग्रहणसामर्थ्यादेवाक्षिप्तधर्म्यभावेऽयं समासो न तु धर्माभाव इति फलं तुल्यमेव । एष एवात्रत्यहरदत्तग्रनास्याप्याशयः। एतेन 'भूतले घटो न' इत्यत्र घटाभावं व्याचक्षाणाः परास्ताः । नित्यसमासप्रसक्त्याऽसाधुतापत्तेः का. रकविभक्तरयोगाश्च । अत एव सिद्धान्ते क्रियाध्याहारेण कारकविशि. ष्टकियाप्रतीतौ तस्या एव निषेधः शाब्दः, भूतलाधारकघटाद्यभाव एवार्थः । गौरवं च प्रामाणिकं व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावश्चायम् । अत एव 'शशशृङ्गं नास्ति' इत्यत्रापि शब्दसाधु. ताऽर्थसाधुता चेप्यत एव । शशशृङ्गास्तित्वच शब्दबलात्प्रततिं निषिध्यते ।