________________
विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम्
उटजचापनपुंसकपातको भुवनकोटरपल्लवगोमया:।
अविखरं हरिचन्दनमुलको भवनसपगाण्डिवपत्तनाः ॥ उटजः पर्णशाला । चापो धनुः । पातकः पापम् । गाण्डिवोऽर्जुन धनुः । दीर्घमध्योऽपि । एतच "गाड्यजगात्सायाम्" (पा०सू०५२-११०) इति सूत्रे वृत्यादौ स्पष्टम् ॥
कर्पूरकूसकषष्टयुशीरगाण्डीवनिष्ठेवसवर्णभस्त्राः। पिण्याकपुस्तौ नखरेषुखण्डवैनीतिकद्वीपिनखारकूटाः ॥ कर्पूरो घनसारः। सकः कञ्चुकः । षष्टिः सङ्ख्यावाची । उशीरो नलदम् । निष्ठेवो निष्ठीवनम् । भस्त्रश्चर्मकोशः भस्त्रा च । पुस्तः पुस्त. कम् । नखरं नखः । इषुर्बाणः । अयं स्त्रीलिङ्गोऽपि ।"पत्री रोप इषद्धयो" (अ०को०२-८-८७)इत्यमरः। तथाच श्रीहर्षः "कुसुमानि यदि स्मरेषवः" इत्युपक्रम्य "हृदयं यदमूमहन्नमूः' इति प्रायुक्त । खण्डः पद्मादीनां समुदायः । विनीतानामिदं वैनीतिकम् । मनुष्यवाह्य यानम् । द्वीपी व्याघ्रः। आरकूटः पित्तलम् ॥ अमरस्त्वाह
पुनपुंसकयोः शेषोऽधर्चपिण्याककण्टकाः । मोदकस्तण्डकष्टङ्कः शाटकः कर्पटोऽबुदः ॥ पातकोद्योगचरकतमालामलकानडः। कुष्टं मुण्डं शीधु बुस्तं वंडितं क्षेम कुट्टिमम ॥ सङ्गमं शतमानार्मशम्बलाव्ययताण्डवम् । कवियं कन्दकार्पासं पारावारं युगन्धरम् ॥ यूपं प्रग्रीवपत्रीवे पूषश्चमसचिक्कसौ । अर्धर्चादौ घृतादीनां पुंस्त्वाचं वैदिकं ध्रुवम् ॥
तन्नोक्तमिह लोकेऽपि तदस्त्यस्तु शेषवत् । इति ।। अर्म चक्षुरोगः । अर्तिस्तुसुहुस्" (उ०सू०१४५) इत्यादिना औणादिको मन्प्रत्यय इति तद्वयाख्यातारः । शम्बलं तालष्यादि दन्त्यादि चेति ते एव । इह यद्यपि अर्धर्चादीन् चिक्कसान्तानत्र पठितान् कटोऽस्त्रीत्यादींश्च तत्र तत्र प्रापठितान् विहायान्येषां प्रसिद्धविलक्षणं पुंस्वादिकमित्युक्तम् । तेन घृतक्षीरदारुलोमासनमुखशरीरादयो लोके नियंतलिका एवेति प्रतीयते । तथापि मुनित्रयवचनविरहाद्वैदिकत्वं निर्मुलम् । अत एकापरितोषाल्लोकेऽपीत्यायुक्तमित्याहुः।
युक्तं चतत् , लिङ्गानुशासनसूत्राणां घृतादिविषयकाणां लोकवेद. साधारण्येनैव प्रवृत्तेः । एवमन्येऽपि ये शन्दाः कोशादिना पुन्नपुंस. कलिगतया निर्णीतास्ते सर्वे अर्ध दिपु बोध्याः ॥