SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ ३०४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादेमथमाह्रिकेत्वाच्च । न चोकजेव प्राक् टेरिति नियमे प्रत्ययान्तरं टिप्राग्भागरूप. मध्यविशेषे मा भून् , मध्यान्तरे तु स्यादेवेति वाच्यम् , लक्ष्यसिद्ध ये मध्यसामान्यापेक्षनियमाभ्युपगमे बाधकाभावात् । किञ्च "गुप्ति किझ्यः " (पा०स०३.१-५) इत्यादौ भ्यसादीनां परत्वदर्शनेन अङ्गसं. ज्ञासूत्रे प्रत्यये इति सप्तमीबलेन च "ज्याप्रातिपदिकात्" (पासू० ४-१-१) इत्यादौ परशब्दाध्याहारे निश्चिते तदैकरूप्याय प्रत्ययविधिः परायामष्टाध्याय्यां न पूर्वादिपदाम्तराध्याहारो न्याय्यः, तत्किं परति सूत्रेण ? उच्यते, प्रयोगनियमार्थमिदं , पर एव प्रत्ययो न केवल इति । अन्यथा प्रत्ययार्थमात्रविवक्षायां किमस्य द्वयसमित्यापि प्रयुज्यतः । यदि तु प्रकृतिविशेषोहेशेनैव प्रत्ययस्य विधानात्केवलो न प्रयोश्यत इति ब्रषे, एवमंपि प्रत्यर्थमात्रविवक्षायां केवला प्रकृतिः प्रयुज्यतैव । यथा पच् पठ् इति । अतः प्रत्ययः परो भवत्येवेति नियमार्थमिदम् । आपदत्वानिवृत्तेश्चायं नियमः । तदेतत्तत्रतत्रोच्यते-"न केवल। प्रकृतिः प्रयोक्तव्या न केवल प्रत्ययः" इति "अपदं न प्रयुखीत" इति च । अप. रिनिष्ठितं न प्रयुञ्जीतेति तस्यार्थ इत्युक्तम् । यत्विह भाप्ये बरुमण्डुः लमक इत्यादीनामपशब्दत्वमुक्तम्, यच्च पदमजो तारतम्यादिश. ब्दानाम्, तत्सर्वे लाक्षणिकरवमनादृत्य प्रयुक्तषु बोध्यम् । इज्यते हि गोणीशब्देस्य गवि गोणीसारश्यशक्तिभ्रमाभ्यां प्रयुकस्य साध्वसा. धुत्वव्यवस्था । अत एव "बव्हच इञः, (पासू०२-४-६६) इति संत्रे रघुशब्दस्य तदपत्ये लक्षणया साधुत्वं हरदत्तेनोक्रम । प्रकृतसूत्रेऽपि 'नो खल्वारभ्यमाणमप्येतलक्षणया प्रयोगं निवारयितुमर्हतिइत्युक्तन्ते. नैव । अत एव तारतम्यमित्यस्य शब्दपरस्यार्थे लक्षणया साधुत्वं के. यटेन "साधकतमङ्करणम्" (पासू०१-४-४२) इति सूत्रे ध्वनित. मिति दिक् । आधुदात्तश्च (पा०स०३-१-३) ॥ अयमप्यधिकारः परिभाषा वा प्राग्वत् । तित्तिरिणा प्रोकमधीते तैत्तिरीयं ब्राह्मणकुलं, "तितिरिवरतन्तुस्खण्डिकोखाच्छण" (पा०म०४-६-१०२) "छन्दोब्राह्मणानि च तद्विषयाणि' (पा०म०३-२-६६) "तदधीते तद्वद" (पा०म०४-२५९)। "प्रोकाल्लुक" (पा०स०४-२-६४) । प्रायन्नादिष्पदेशिववचनं स्वरसिद्धर्थम् । इह रीशब्द उदात्तः । स्यादेतत, अस्वरकस्यांच उच्चारणासम्भवात् सर्व एव स्वरविधिनियमार्थः । तत्र चित एवान्तो. दात्तः ।रित एवं मध्योदात्तः । तिदेव स्वरितः । सुप्पिताववानुदासी। वात्सम्बुद्धावेवैकश्रुत्यमिति स्वरान्तराणामन्यत्र. नियमात्पारिशेण्या
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy