________________
१२४ शब्दकौस्तुभप्रथमाध्यापचतुर्थपादे तृतीयान्हिकेमित्त्वाभावात् । 'तज्ज्ञापयति' इत्यादिभाष्यप्रयोगात् । अत एव "मार. णतोषण" (गसू०) इत्यत्र निशानेविति पाठो न तु निशामनेविति । निशानं तनूकरणम् । श्यतेयुट् । 'संज्ञपितः पशुः' इत्युदाहरणम् । “आ. पूज्ञप्यधामीत्" (अष्टा सू०७-४-१५) इत्यत्र तूभयोरपि ज्ञप्योर्ग्रहणमिति सिद्धान्तः । चौरादिकश्च मारणतोषणनिशामनेषु वर्त्तते इति माधवः ।
धारेरुत्तमर्णः (अष्टान्सू०१-४-३५)। अयमुक्तसंज्ञः स्यात् । “धृङ् अवस्थाने" (तु०आ०१४१३)। ण्यन्तः । उत्तमो धनस्वामी । उत्कृष्टार्थवृत्तेरुच्छब्दात्तमपि द्रव्यप्रकर्षत्वादामभावः । अतः कः । क्र. णम् । “ऋणमाधमण्ये' (अष्टा०सू०८-२-६०) इत्यत्र कालान्तरदेयन्द्र. व्यविनिमयोपलक्षणार्थमाधमर्यग्रहणम् । तेनोत्तमणेऽपि नत्वं भवति । अस्मादेव निपातनानिष्ठान्तस्य परनिपातो बहुव्रीही बोध्यः । देवद. त्ताय शतं धारयति । ध्रियमाणं स्वरूपेणावतिष्ठमानं स्वभावादप्रच्य. वमानं शतं प्रयुक्त इत्यर्थः। कारकशेषे षष्ठ्यां प्राप्तायामिदं वचनम् । उत्तमर्णः किम् ? देवदत्ताय शतं धारयति ग्रामे । परत्वादिहाधिकरण. संज्ञा भविष्यतीति चेत् ? उत्तमणेऽपि तर्हि हंतुसंज्ञा स्यात् । ___ स्पृहेरीप्सितः (अष्टा०सू०१-४-३६) । स्पृह ईप्सायां चुरादावदन्तः । अस्य प्रयोगेऽभिप्रेतः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । इप्सितमात्र इयं संज्ञा। प्रकर्षविवक्षायान्तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ।यदा त्वीप्सितमीप्सिततमं वा शेषत्वेन विवक्षितं तदा षष्ट्येवेति हरदत्तादयः। हेलाराजस्तु "हेतुत्वे कर्मसंज्ञायाम्" (वा०५०) इति प्रागुः कश्लोकव्याख्यावसरे स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्ठ्याश्च बाधि केयं सम्प्रदानसंज्ञेत्याह । वाक्यपदीयस्वरसोऽप्येवम् । अस्मिन्पले "परस्परेण स्पृहणीयशोभम्" इति कर्मण्यनीयर् दुर्लभः। 'दानीयो विप्रः' इतिवत्सम्प्रदान एव तु व्याख्येयः। तथा
कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च । इति षष्ठ्यप्यसङ्गता । विभक्तिविपरिणामेन कान्ताय स्पृहयन्तीति तु व्याख्येयम् । हरदत्तमते तु यथाश्रुतावेव उक्त प्रयोगौ निर्बाधाविति ।
क्रुधदुहेासूयार्थानां यम्प्रति कोपः (अष्टा०सू०१-४-३७)। क्रोधा. धर्थानां धातूनां प्रयोगे यं प्रति कोपस्तत्कारकं सम्प्रदानं स्यात् । देव. दचाय क्रुध्यति दुह्यति ईय॑ति असूयति वा । वाक्चक्षुरादिविकारानु. मेयः प्ररूढः कोपोऽत्र क्रोधः । अपकारो द्रोहः । असहनमाया । गुणेषु दोषारोपणमसूया । ननु चित्तदोषार्थानामित्येवास्तु किं क्रोधादीनां वि. शिष्योपादानेनेति चेत् ? न, विषादावतिप्रसङ्गात् । “योऽस्मान्द्वष्टि"