________________
१८६
शब्दकौस्तुभद्वितीयाध्यायप्रथमपादे तृतीयान्हिके
कौ रूढतया तक्षकत्वस्य सर्पत्वव्यभिचार इत्यविशेषात् । तक्षकत्वं सर्पत्वव्याप्यं भिन्न मे । तच्च न व्यभिचारीति चेत् ? तत्कि शिंशपा. त्वं वृक्षत्वफलत्वयोाप्यं नानति न पर्यालोचयेः। किश्च 'रामो जामः दग्न्यः' 'अर्जुनः कार्तवीर्यः' इत्यादि प्रकृतसूत्र एव वृत्तौ प्रत्युदाहृतम् । तत्र यदि रामत्वमजुनत्वं च दाशरथिधनञ्जयादिव्यावृत्तं भिन्नमेव तञ्च व्याप्यमित्याशयस्तर्हि समं शिशपात्वे । अथ शिंशपात्वं फलवृक्षयो। रेकं तर्हि नानार्थोच्छेदः तक्षकरामाणुनादावतिप्रसङ्गश्च । उभयसाधारणजाति साधकं नास्तीत्यादि तु तुल्यमेध । तस्मादिह कैयरमतमेव प्रा. माणिकमित्यवधेयम् । अत एव 'कैलासाद्रिः' 'मन्दराद्रिः' 'भावपदार्थः' 'तर्कविद्या' 'व्याकरणशास्त्रम्' इत्यादयः प्रयोगास्सङ्गच्छन्ते।
इदं त्ववधेयम् । विशेषणविशेष्यभावे कामचारात्पाचकपाठकादा. विव नीलोत्पलादावस्यव्यवस्थितः पूर्वनिपातः प्राप्तः। तत्रायं सिद्धा. न्तः । उपसर्जनमिति तावदन्वर्थसं त्युक्तम् 'अप्रधानमुपसर्जनम्' इति । तदिह जातिगुणशब्दयोः सन्निपाते गुण एव विशेषणं तस्य द्रव्यावच्छे. दद्वारैव क्रियानिर्वर्तकत्वात् । श्रोतव्यवहारोऽप्येवम् । "श्वेतं छागमा. लभेत" इति हि चोदनायां श्वेतच्छागालाभे कृष्णच्छाग आलभ्यते न तु श्वेतमपि पश्वन्तरम् । क्रियाजात्योरप्युपनिपाते एवमेव । तेन 'नी. लोत्पलं' 'पाचकब्राह्मणः' इति व्यवस्थित एव प्रयोगः। यत्र तु गुणशब्दयोः क्रियाशद्वयोः गुणक्रियाशब्दयोर्वोपनिपातस्तत्रानियम एव । 'खञ्जकुब्जः, कुब्जखञ्जः'। 'पाचकपाठकः, पाठकपाचकः'। 'खञ्जपाचकः, पाचकखञ्जः' इति । 'शिंशपावृक्षः' इत्यत्र तु शिंशपात्वस्य व्याप्यत्वात् वृक्षत्वस्य च व्यापकत्वात् विशेषणविशेष्यभावव्यवस्था स्पष्टैवेति दिक् ।
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च (अष्टा०सु०२-१५८)।एते सुबन्ताः समानाधिकरणेन सुपा सह प्राग्वत् । पूर्वेणैव सिद्ध पूर्वनिपातनियमार्थमिदम् । गुणक्रियाशब्दैः सह समासे पूर्वादीनामेव पूर्व निपातो यथा स्यात् । पूर्ववैयाकरणः । अपराध्यापकः । इत्यादि । अप. रश्चासावर्द्धश्च पश्चार्द्धः । “पश्चात्" ( अष्टा०सू०५-३-३२ ) इति सूत्रे पठिप्यमाणेन "अर्द्धच" (का०वा०) इति वार्तिकेनापरस्य पश्चभावः।
__ पश्चार्द्धन प्रविष्टः शरपतनभयाद् भूयसा पूर्वकायम् ।
इति कालिदासः । अथ कथं "दृतं सराजन्यकमेकवीरः" इति ? इह हि "पूर्वकालैक" (अष्टा०सू०२-१-४९) इति बाधित्वा परत्वादनेन समासे 'वीरैकः' इति स्यात् । सत्यम् , पूर्वविप्रतिषेधोऽत्र वक्तव्य इति दुर्घटवृत्तिकारादयः । न त्वत्रोपष्टम्भकं मुनित्रयवचः पश्यामः । बहुल.