________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१८५
स्वरो न प्रवर्तते इति सिद्धान्तः । उपमीयतेऽनेनेत्युपमानम् । उपपूर्वकाम्माङः करणे ल्युट् । प्रादिसमासः । उपपूर्वकश्च माङ् सादृश्यहेतुके परिच्छेदे रूढः । येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानम् । त नैरिव गवय इति । इह हि गौः करणं पुरुषः परिच्छेत्ता । स
सादृश्येन गवयं परिच्छिनति । घनश्यामादौ तु घनादयः शब्दा यद्यपि घनादिसदृशे उपमेये संक्रान्तास्तथापि भूतपूर्वगत्या उपमानवा चिता द्रष्टव्या । इदमेव दर्शयितुं लौकिके विग्रहवाक्ये इवशब्दः प्रयुज्यते न त्वसौ प्रक्रियोपयोगीत्यवधेयम् । सामान्यवचनत्वमपि तद्विशि. टोपमेयपरत्वमेव बोध्यम् ।
उपमितं व्याघ्रादिभिः सामान्य (प्रयोगे (अष्टा०सु०२ - १ - ५६ ) | उपमेयं व्याघ्रादिभिः सह प्राग्वत् साधारणधर्मप्रयोगेऽसति । विशेष्यस्य पूर्वनिपातार्थोऽयमारम्भः । पुरुषो व्याघ्र इव पुरुषव्याघ्रः । व्याघ्रादिराकृतिगणः । सामान्याप्रयोगे किम् ? पुरुषोऽयं व्याघ्र इव शूरः । कथं तर्हि "भाष्याब्धिः क्वातिगम्भीरः" इति कैयटः ? अत्राहुः - नेह गाम्भीर्य साधारणधर्मत्वेन विवक्षितं किन्तु विततदुरवगाहत्वादि । तस्य चाप्र योगो ऽस्त्येवेति निर्बाधः समास इति ।
विशेषेणं विशेष्येण बहुलम् (अष्टा०सू०२-१-५७) । भेदकं समानाधिकरणेन भेद्येन बहुलं प्राग्वत् । नीलमुत्पलं नीलोत्पलम् । बहुलग्रहणात्क्वचिन्नित्यसमासः । कृष्णसर्पः । लोहितशालिः । क्वचिश्न, रामो जामदग्न्यः । व्यासः पाराशर्यः । विशेषणविशेष्ययोः ससम्बन्धिकतयाऽन्यतरोपादानमात्रेणेतराक्षेपसम्भवे उभयोपादानं स्पष्टार्थे "कुत्सितानि कुत्सनैः” (अष्टा०सू०२ - १ - ५३ ) इत्यादाविवेति कैयटमतम् । हरदत्तस्स्वाह—विशेष्येणेत्युक्त्या विशेषणं लब्धम् । तस्य पुनर्विशेषणत्वोक्तिर्विशेष्यते इति व्युत्पत्त्या विशेष्यत्वलाभार्थ, तथाच समस्य मानपदद्वयजन्यबोधप्रकारयोः परस्परव्यभिचारित्वे समासोऽयं यथा नीलोत्पलादौ । तक्षकः सर्प इत्यादौ तु न भवति । नहि तक्षकत्वं सर्पत्वव्यभिचारीति । अत्रेदं वक्तव्यम् -' शब्द शास्त्र सहकारपादपाद्' इति प्रयुञ्जनेन प्रकृतसूत्र एव शिंशपावृक्ष इति समासो भवत्येवेति वदता त्वयाऽपि शिंशपावृक्षादिभ्यस्तक्षकः सर्प इत्यादौ विशेषो वक्तव्यः । ननूक्त एवासौ, "लुब्योगाप्रख्यानात्” (अष्टा०सू०१-२-५४) इनिमूत्रस्वरसेन शिशपादिशब्दानां फलेऽपि मुख्यतया शिंशपात्वस्य वृक्षत्वव्यभिचारादित्युपपादितत्वादिति चेत् न, "तक्षको नागवर्धक्योः ( अ० को ०३ - ३ - ४ ) इति नानार्थ कोशानुरोधेन तक्षकशब्दस्यापि वर्ध