________________
विधिशेषप्रकरणे तत्पुरुषप्रकरणम् ।
१८७
ग्रहणं वा शरणीकर्त्तव्यम् ।
श्रेण्यादयः कृतादिभिः (अष्टा०सू०२ - १ - ५९ ) । अर्थः प्राग्वत् । श्र ण्यादिषु व्यर्थवचनम् । अश्रेणयः श्रेणयः कृताः श्रेणिकृताः । एकेन शिल्पेन पण्येन वा ये जीवन्ति तेषां समूहः श्रेणि । श्रेण्यादयः पठ्यन्ते । कृतादिराकृतिगणः । यन्तानां तु "कुगति” (अष्टा०सु०२-२-१८) इति नित्यं समासः परत्वात् । श्रेणि, एक, पूग, मुकुन्द, राशि, विषय, निचय, निधन, इन्द्र, देव, मुण्ड, भूत, श्रवण, वदान्य, अध्यापक, अभिरूपक, ब्राह्मण, क्षत्रिय, पटु, पण्डित, कुशल, चपल, निपुण, कृपण, इति श्रेण्यादिः ।
केन न विशिष्टेनानञ् (अष्टा०सु०२-१-६०) । नञ्मात्राधिकेन का न्तेनानञ् क्तान्तं समस्यते स तत्पुरुषः । कृतं च तदकृतं च कृताकृतम् । एकमेव वस्तु एकदेशकरणात्कृतमेकदेशान्तरस्याकरणाच्चाकृतमित्युच्यते । पीतापीतम् । उदितानुदितम् । नुडिडाधिक्येऽपीष्यते । अशितानशितम् । क्लिष्टाक्लिशितम् । नुडिग्रहणमर्थाभेदकस्य विकारस्याप्युपलक्षणम् । “शाच्छोरन्यतरस्याम्" (अष्टा०सू०७-४-४१) छाताच्छितम् । पूर्वनिपातनियमार्थं सूत्रारम्भः ।
कृतापकृतादीनामुपसंख्यानम् (का०वा० ) । कृतापकृतम् । भुक्तविभुक्तम् । पीतविपीतम् । गतप्रत्यागतम् । भावेक्तः । तत् क्षणभुवा प्रत्यागमनेन सहचरितं गमनं गतप्रत्यागतम् । यातं च तदनुयातं च तदानीमेव पुनर्गमनात् यातानुयातम् । क्रयाक्रयिका । "अल्पे" (अष्टा०सू०५३- ८५) इति कप्रत्ययः । तदन्तश्च स्वभावात्स्त्रियाम् । “अन्येषामपि दृश्यते" (अष्टा०सू०६-३ - १३७) इति दीर्घः । महान् क्रयः क्रयशब्देनोच्यते, गोबलीवर्द्दन्यायात् । एवं पुटापुटिका, फलाफलिका, मानोन्मानिकेति ।
समानाधिकरणाधिकारे शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (का०वा० ) । शाकप्रियः पार्थिवः शाकपार्थिवः । पृथिव्या ईश्वरः । “तस्येश्वरः " ( अष्टा०सू०५-४-४२ ) इत्यञ् । लक्षणया सिद्धे उत्तरपदलोपो नोपसंख्येय इत्याहुः ।
सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (अष्टा०सू०२ - १-६१ ) । एते पूज्यमानैः सह प्राग्वत् । गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थं सूत्रम् । सत्पाठकः । महावैयाकरणः । इत्यादि । पूज्य · मानैः किम् ? उत्कृष्टो गौः । कर्दमादुद्धृत इत्यर्थः । 'महाजनः' 'महो दधिः' 'महापापम्' इत्यादौ तु पूजाभावेऽपि "विशेषणं विशेष्येण "