________________
विधिशेषप्रकरणे निपातसञ्ज्ञाप्रकरणम् ।
१४१
त्वंहिकंनुकम् | सुकंआकी नकी नकिः । माकीं माकिः । आकृतमिति वेदनिघण्टुः | आमिश्राणि नवोत्तराणीति तद्याख्यायां यारुकः । माङ् । "माङि लुङ्” (अष्टा०सु०३ -३ - १७५) इतिविशेषणार्थो ङकारः । म भवतु मा भविष्यतीत्यत्र निरनुबन्धो माशब्दः । नञ् । ञकारो “नलोपो नञः” (अष्टा०सु०६-३-७३) इति विशेषणार्थः । नस्येत्युक्ते तु वा 'पाम नपुत्रः' इत्यत्रापि स्यात् । न च सिद्धान्तेऽपि स्त्रैणपुत्रेऽतिप्रसङ्गं वारयितुम् "अलुगुत्तरपदे" (अष्टा०सू०६-३ - १ ) इत्युत्तरपदाक्षिप्तेन पूर्वपदेन नञोऽवश्यं विशेषणीयत्वात्तेनैव पामनपुत्रस्यापि सिद्धेः किं अकारेणेति वाच्यम्, "नैकधागमिकर्मीकृत नै कनीवृता" इत्यादौ निषेधार्थेन नशब्देन 'सह सुपा" ( अष्टा०सु०२-१-४) इति समासेऽतिव्याप्तिं वारयितुं ञित्वस्याप्यावश्यकत्वात् । नञ । पूर्वपदस्य विशेषणेऽपि अनन्यार्थञित्वस्य निपातस्यैव ग्रहणं न तु वृद्ध्या चरितार्थत्रकारस्य तद्धितस्यापीति तु प्राचां ग्रन्थस्योक्तिसम्भवो बोध्यः । यावत् । तावत् । त्वै वे एतौ वितर्के । श्रौ. षट् । वौषट् । स्वाहा । वषट् । स्वधा । ॐ । तथा । हिरुक् । खलु । किल | अथ । सुष्ठु | आदहेति हि सोपक्रमकुत्सनेषु । 'आदहस्व धाप्रन्' इत्यत्र तु पदकारा आदिति पृथक् पठन्ति । उपसर्गविभक्तिस्वर प्रतिरूपकाश्च ।
अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ॥
1
|
" अच उपसर्गात्तः” (अष्टा०सु०७-४-४७) इति घोरतत्वं न भवति, उपसर्गप्रतिरूपकत्वेप्यनुपसर्गत्वात् । विभक्तिप्रतिरूपको यथा-अहम् शुभम् । अहंयुः, शुभंयुः - "अहंशुभमोर्युस्” (अष्टा०सू०५-२-४०) चिरेण । अन्तरेण | चिराय | अचिरात् । अकस्मात् । चिरस्य मम । ममत्वं गतराज्यस्य । वेलायां मात्रायामित्यादि । एतेन "गेये केन विनीतौ वाम्" इति व्याख्यातम् । वामित्यस्याव्ययस्य युवामित्यर्थात् । आह आसेत्या. दीनि तु तिङन्तप्रतिरूपकाणि । स्वरास्तु सम्बोधन भर्त्सना नुकम्पापादपूरणप्रतिषेधेषु यथासम्भवं बोध्याः । अ अपेहि । आ एवं मन्यसे । इ इन्द्रं पश्य । ई ईशः । ऊ ऊपरे बीजं वपति । ए इतो भव । ओश्रावय । ऋ ऋ लऐ औ एते मन्त्रस्तोमाः । पश्विति सम्यगर्थे । लोधं नयन्ति पशु मन्यमानाः । शुकमिति शीघ्रत्वे । यथा कथाचेत्यनादरे । पाट् प्याट् अङ्ग है हे भो अये इत्यादयः सम्बोधने । घेति हिंसाप्रातिलोम्यपादपूरणेषु । विषु इति नानार्थे । एकपदे इत्यकस्मादर्थे । निहन्त्यरीनेकपदे । पुत इति कुत्सायाम् । कुत्सितमवयवञ्छादयति इति पुच्छः । डः ।