________________
१४२ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे चतुर्थान्हिके-- पुलिति लान्तमिति शाकटायनः । कुत्सितं कसति गच्छतीति पुलक सः। अस्मीत्यहमर्थे । त्वामस्मि वच्मि विदुषां समवायोत्र तिष्ठति । आत इति इतोऽपीत्यर्थे । इत्यादि । आकृतिगणश्चायम्।।
प्रादयः (अष्टा सू०१-४-५८) । एते निपातसंज्ञाः स्युन तु सत्त्वे । प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप एते प्रादयः । तत्र निस् दुस् इमौ सान्तौ । “निसस्तपतावनालेवने" (अष्टा०सू०८-३-१०२) इतिनिशा. दिति "उपसर्गस्यायतौ" (अष्टा०सू०८-२-१९) इति सूत्रे वृत्तिः। "निरः कुषः" (अष्टा सू०७-२-४६) "सुदुरोरधिकरणे" इत्याद्यनुरोधाद्रेफा. न्तावपीति तत्रैव सूत्रे हरदत्तः । अद्रव्ये किम् ? वि पक्षी । पराः सेनाः। ___ उपसर्गाः क्रियायोगे (अष्टा सु०१-४-५९) । प्रादयः क्रियायोगे उप. सर्गसंज्ञाः स्युः।
गतिश्च (अष्टा०स०१-४-६०)। प्रादयो गतिसंशाः स्युः क्रियायोगे। पुल्लिङ्गोऽयं गतिशब्दः, “गतिरनन्तरः" (अष्टा सू०६-२-४९) इति लि. ङ्गात् । अव्युत्पन्नश्चायं क्तिजन्तो वा । "न क्तिचि दीर्घश्च" (अष्टा०सू० ६-४-३९) इति तु न प्रवर्तते, अत एव निर्देशात् । उपसर्गसंज्ञया सह समावेशार्थश्चकारः । अन्यथा पर्यायः स्यात् । तेन 'प्रणेयम्' इत्यादौ णत्वं कृदुत्तरपदप्रकृतिस्वरश्च सिध्यति । निपातसंज्ञायास्तु समावेशः प्राग्ग्रहणेन साधित एव । इह यक्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युप. सर्गसंज्ञाः, योगग्रहणसामर्थ्यात् । तेन प्रवृद्धं कृतं प्रकृतमित्यत्र “गतिरनन्तरः" (अष्टा०सू०६-२-४९) इति स्वरो न, कर्मणि कान्तं प्रत्यगतित्वात् । कृार्थविशेषकत्वे तु स्यादेव । तथा प्रवृद्धो भावःप्रभावः' इत्यत्र "श्रिणीभुवोनुपसर्गे" (अष्टा सू०३-३-२४) इति घञ् सिद्धः। एवं 'प्रणा. ययति' 'अभिपाचयति' इत्यादौ प्रकृत्यर्थगतप्रकर्षाभिमुख्यद्योतकतायां णत्वषत्वे स्तः । ण्यर्थविशेषकत्वे तु नेति बोध्यम् । निपातसंज्ञा तु क्रिया योगं विनाऽप्यस्ति । एतदर्थमेव हि प्रादय इति योगो विभक्तः । तेन 'प्रगत आचार्यः प्राचार्यः' इत्यत्राव्ययपूर्वपदप्रकृतिस्वरः सिध्यति । ___ उपसर्गसंज्ञायां मरुच्छब्दस्योपसङ्ख्यानम् । मरुत्तः । उपसर्गसंज्ञाविधानसामादजन्तत्वाभावेपि "अच उपसर्गात्तः" (अष्टासु०७-४४७) इति तत्वं प्रवर्तते इत्याहुः । एवञ्च मरुन्न यतीत्यत्र णत्वमपि प्राप्नो. ति। तस्मात्तत्व एव संज्ञा वकन्या। अत एव किविधिरङ च न भवति । निपातसंज्ञा तु नास्येष्टा। तेन "तृतीयाकर्मणि" (अष्टा०सु०६-२-४८) इति पूर्वपदप्रकृतिस्वरे कृते मरुत्तशब्दो मध्योदातः। निपातये त्वायुदात्तः