SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २५६ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिके बहुत्वाभावाद्वहुवचनं न स्यात् । सत्यपि वा तस्मिसमभाषे ते 'उपदशा' इति न स्यात् , बहुव्रीहेरेवानुप्रयोगे तु उपदशस्य पाणि. पादस्येति षष्ठी स्यात् । उपदशं पाणिपादस्येति चेप्यते । तस्माद्यथोक्तमेव मनोरमम् । स नपुंसकम्(पा०स०२-४-१७। समाहारे द्विगुर्वन्तश्च नपुंसकास्या. तू । परल्लिङ्गापवादः । पञ्चगवम्। दन्तोष्ठम्। प्रकरणादेवानुवाघलामे सग्रहणमेतत्प्रकरणानुपात्तस्यापि समाहारद्वन्द्वस्य सङ्ग्रहार्थम् । तथा च “युवोरनाको” (पा०सू०७-१-१) इत्यादावुच्यते-युवोरिति समा. हारबन्। सनपुंसकम् (पा सू०२-४-१७) इति क्लीबत्वं स्यादिति । अत एव प्रयुज्यते "कार्यकालं संशापरिभाषम्" इति । अकारान्तोत्तरपदो विगुः खियामिष्टः (का०वा०)। अत इत्यधिकारे "द्विगोः" (पा००४१-२१) इति ङीविधानमिह लिङ्गम । पञ्चमूली । वावन्तः (का०वा०)। पञ्चखट्वी, पश्चखट्वम् । स्त्रीत्वपक्षे उपसर्जनहस्वत्वम् । अनो नलोपश्च वा च द्विगुः स्त्रियाम् (का०वा०) । पञ्चतक्षं, पञ्चतक्षी । "उत्तरपदत्वे चापदादिविधौ" (का०वा०) इति प्रत्ययलक्षणप्रतिषेधात् पक्षवामावानलोपवचनम् । पात्राद्यन्तस्य प्रतिषेधः । पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् । द्विसमासम् । पात्रादिराकृतिगणः । ____ अव्ययीभावश्च (पासू०२-४-१८)। अयं नपुंसकं स्यात् । अधि. स्त्रि । उन्मत्तगङ्गम् । पूर्वपदार्थप्रधानस्य अलिङ्गत्वेन्यपदार्थप्रधानस्य तु विशेष्यलिङ्गत्व प्राप्ते इदमुच्यते । अनुक्तसमुच्चयार्थश्चकारः। तत्फ. लन्तु "पुण्यसुदिनाभ्यामन्हः" (कावा०)। पुण्याहम् । सुदिनाहम । कर्मधारये "राजाहस्सखिभ्यष्टच्" (पासु०५-४-९१)। "रात्रान्हाहाः सि' (पासू०२-४-२९) इत्यस्यापवादः । सुदिनशब्दः प्रशस्तषा. ची। तथा च प्रयुज्यते सुदिनासु सभासुकार्यमेतत् प्रविचिन्वीत विशेषतः स्वयश्च । इति । तेनेह दिनाहाशब्दयोः सहप्रयोगविरोधो न शङ्कनीयः। पथा स. लघाव्ययादेः ( कावा० ) । त्रयाणां पन्थाः त्रिपथम् । विरूपः पन्थाः विपथम् । प्रादिसमासः। कथन्तर्हि-"अतिपन्थाः सुपन्थाश्च" (अ० को०२-१-१६) इत्यमरः उच्यते,पथ इति कृतसमासान्तांप्रथमा; संख्या. व्ययरूपादेः परः कृतसमासान्तःपथशन्दः क्लीबमित्यर्थः । पथः क्लीबतेति पाठेऽपि सङ्खयादिपथशब्दस्याव्यभिचरितसमासान्ततया तत्साइच. दिव्ययादेरपि तथाभूतस्यैव ग्रहणं बोध्यम् । तथाच क्लीबलिगका. रिका-पथः सङ्ख्याव्ययात्पर इति । न चेह समासान्नोस्ति, "न पू
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy