________________
विधिशेषप्रकरणे आत्मनेपद नियमप्रकरणम् ।
७१
संवित्ते, संविदाते, संविदते । सम्पृच्छते, संस्वरते । अर्त्तिश्रुह शिभ्यश्चेति वक्तव्यम् (का०वा० ) । 'अर्त्ति' इतिभ्वादिजुहोत्यादी द्वावपि गृह्येते । "सर्त्तिशास्ति" (अष्टा०सु०३-१-५६ ) इत्यविधौ तु शास्ति ना लुप्तविकरणेन साहचर्याज्जुहोत्यादेरेव ग्रहणम् । परस्मैपदेषु इति तूत्तरार्थमनुवर्तमानमपि योगविभागसामर्थ्यादविधौ न सम्बध्यते । तेन 'मासमृत' 'मासमृषातां ' 'मासमृषत' इति भाष्यं स्वाद्यभिप्रायेण । 'समारत' 'समारेतां' 'समारन्त' इति वृत्तिस्तु जुहोत्याद्यभिप्रायेण योज्या । संशृणुते सम्पश्यते । "रक्षांसीति पुराऽपि संशृणुमहे" इति मुरारिप्रयोगस्तु चिन्त्यः । अकर्मकादित्यनुवृत्तेः । वृत्तिकारस्तु "समो गम्यृच्छिप्रच्छिस्व रत्यर्त्तिश्रुविदिभ्यः" इति पठित्वा "हशे श्च" इति वक्तव्यरूपेण पपाठ । तत्र वार्त्तिकानुपूर्वीभङ्गे केषाञ्चिदेव सूत्रे प्रक्षेपे दृशेश्च तद्बहिष्कारे बीजं न पश्यामः । अथास्मिन्नकर्मकाधिकारे ये सकर्मका हनिगमिप्रभृतयस्तेषां कथमकर्मकता । उच्यते"धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् ।
प्रसिद्धेविवक्षातः कर्मणोकर्मिका क्रिया" ॥
'वहति भारम्' इति प्रापणे सकर्मको वहिः । स्पन्दने त्वकर्मकः । 'वहन्ति नद्यः' इति । प्राणविशिष्टं धारणं जीवतिराह । गात्रविशिष्टं विक्षेपञ्च नृत्यतिः । अतो द्वावप्यकर्मकौ । प्रसिद्धेर्यथा- 'मेघो वर्षति' इति । कर्मणो ऽविवक्षातो यथा - "हितान्न यः संशृणुते स किं प्रभुः " (किं०१–५) । “उपसर्गादस्यत्यूह्योर्वा" (का०वा० ) इति वक्तव्यम् । इति आरभ्याकर्मकादिति न सम्बध्यते । निरस्यति, निरस्यते । समूहति, समूहते । उपसर्गात्किम् ? अस्यति, ऊहते । अनुदात्तेत्वादात्मनेपदी | कथन्तर्हि "अनुक्तमप्यूहति पण्डितो जनः" इत्यादि । चक्षिङो डिक्करणे. नानुदात्तेश्वलक्षणस्यात्मनेपदस्यानित्यताज्ञापनात्समाधेयम् ।
एकारान्तस्य
निसमुपविभ्यो ह्वः (अष्टा०सू०१-३-३०) । स्पष्टार्थः । निह्वयते । अकर्त्रभिप्रायार्थ सूत्रम् । स्यादेतत्- 'निह्नास्यते' इत्याद्युदाहरणमस्तु न तु 'निह्वयते' इति । आकारान्तस्य सूत्रे उपादानात् । ग्रहणाभावात् । नहि विकृतिः प्रकृर्ति गृह्णातीति चेत् ? उच्यते- --आका रान्तादपि कथमभ्युपैषि । नहि 'ह्वः' इति सूत्रे आकारविशिष्टः पठितः । प्रयोगसमवायिनां वाचकतेति सिद्धान्तरीत्या 'ह्व' इति वान्तस्य आकारान्तमर्थः । 'दध्ना' इत्यत्र नान्तस्य दधी वेति यदि तर्हि वान्तस्यैव एकारान्तनर्थ इत्यपि तुल्यम् । प्रक्रियादशायां हि एकारान्तानुकरणे लक्षणनशादशत्वं केतु आकारान्त इहानुकार्यः । तस्मान्न कि.