________________
शब्द कौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके-
देवतास्वारोपाद्भविष्यति । मद्दीपतेदेवतांशत्वाद्वा । सङ्गतकरणेरथिकानुपतिष्ठते । उपश्लिष्यतीत्यर्थः । एवं गङ्गा यमुनामुपतिष्ठते इति । मित्रकरणन्तुपश्लेषं विनाऽपि भवति । रथिकानुपतिष्ठते । अयं पन्थाः नमुपतिष्ठते । प्राप्नोतीत्यर्थः । वा लिप्सायामिति वक्तव्यम् । (का० वा० ) भिक्षुको ब्राह्मणमुपतिष्ठते, उपतिष्ठति वा । लिप्सया हेतुभूतया उपगच्छतीत्यर्थः ।
Go
अकर्मकाच्च (अष्टा०सू०१-३-२६) । उपपूर्वकात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते । सन्निधत्ते इत्यर्थः ।
उद्विभ्यां तपः (अष्टा००१-३-२७) । आभ्यां तपतेरकर्मकादात्मने पदं स्यात् । उत्तपते, वितपते । दीप्यत इत्यर्थः । स्वाङ्गकर्मकाच्चेति वक्तव्यम् (का०वा० ) । स्वमङ्गं स्वाङ्गम् । नतु "अद्रवम्" इति परिभा षितम् । उत्तपते, वितपते पाणिम् । अकर्मकात्स्वाङ्गकर्म का दित्युक्तेः स्व. मङ्ग स्वाङ्गमिति व्याख्यानाच्च नेह - 'देवदत्तो यज्ञदत्तस्य पाणिमुत्तपति' । सन्तापयतीत्यर्थः । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । उद्विभ्यां किम् ? निष्टपति । "निसस्तपतावना सेवने" (अष्टा सू०८-३-१०२ ) इति मूर्धन्यः ।
आङो यमहनः (अष्टा०सू०१-३-२८) । आङ्पूर्वाभ्यामकर्मकाभ्यां स्वाङ्गकर्मकाभ्याञ्च यमिहनिभ्यामात्मनेपदं स्यात् । आयच्छते, आह ते । आयच्छते पाणिम् । आहते शिरः । नेह - परस्य शिर आहन्ति । कथं तर्हि "आजघ्ने विषमविलोचनस्य वक्षः" ( कि०१७-६३) इति भारविः । अत्र केचित् - 'आज' इति पदं छित्वा 'ने' इति भावे क्विपि चतुर्थीकवचनान्तमुक्ता ने हन्तुं आज जगामेति व्याचख्युः, तन्न । अ- लिटि वीभावेन 'विवाय' इति सिद्धान्तात् । अन्ये तु विषमविलोचनस्य समीपमेत्य स्वं वक्षमास्फालितवानित्यर्थः । मल्लो ह्युत्साहाविष्करणाय स्वं वक्षमास्फालयतीत्याहुः । भागवृत्तौ तु प्रमाद एवायमित्युक्तम् | एवञ्च “मोहादाहध्वं मा रघुत्तमम्" इति भट्टियोगोपि चिन्त्यः
समो गम्यृच्छिभ्याम् (अष्टा०स०१-३-२९) । सम्पूर्वाभ्यामकर्मकाभ्यां गच्छभ्यामात्मनेपदं स्यात् । सङ्गच्छते, समृच्छिष्यते । अकर्मका भ्यां किम् ? ग्रामं सङ्गच्छति । कथन्तर्हि "तच्चैक्यं समगच्छत" इति आर्यत्वात् । यद्वा-चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ् । एकं समपद्यतेत्यर्थः । विदि पृच्छिस्वतीनामुपसङ्ख्यानम् (का०वा० ) विदेर्शानार्थस्येह प्र. हणम् । परस्मैपदिभ्यां साहचर्यात् न लाभार्थस्य । स हि स्वरितेत्वादुभयपदी सत्ताविचारणार्थयोस्त्वनुदातेत्वादात्मनेपदं सिद्धमेव ।
.