SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०६ शब्दकौस्तुभप्रथमाध्यायचतुर्थपादे द्वितीयान्हिकेमेवकारः । दृढमुष्टिना। स्यादेनत्, “शषोध्यसस्निपती' इत्येवास्तु । समस्तस्य तु पूर्वो. तरीत्या सिद्धम् । न चोत्तरसूत्रे सख्युरपि सम्बन्धापत्तिः, बाधकामा. वात् । इष्टरूपस्य तावतापि सिद्धेः । द्वितीयस्य तु साधोगपि छन्दस्य. पठितस्यानापाद्यत्वात् । न चैवमुत्तरसूत्रे षष्ठीयुक्तग्रहो व्यर्थः स्यादिति वाच्यम् , इष्टापत्तेः। एवमेव हि "श्रीग्रामण्योच्छन्दसि" (अष्टा०सू०७१-५६)इति श्रीग्रहणं "नित्यं मन्त्रे" [अष्टा०म०६-१-२१०] इत्यादीनि च प्रत्याख्यातानि । “सम्बुद्धौ शाकल्यस्य" [अष्टा०सू०१-१-१६] इत्यत्रा नार्षग्रहणमप्येवम् । सत्यम् । यथा सखिगृहे गृहसखायावित्यत्र पूर्व निपातानियमस्तथा पतिगृहे इत्यत्र मा भूत । इह हि घित्वात्पूर्वनिपात एव । बहुपूर्वस्य तु सुसस्त्रिन्यायेन घित्वाद् 'बहुपतिना' इत्यादि बोध्या म् । अथ कथं "सखिना वानरेन्द्रण" "पतिना नीयमानायाः पुरः शुक्रो न दुण्यति"। "नष्टे मृते प्रव्रजिते ल्कीबे च पतिते पतौ" । इत्यादि ? अत्र हरदत्तः, छन्दोवदृषयः कुर्वन्तीति । अस्यायमाश. यः-असाधव पवैते त्रिशङ्काद्ययाज्ययाजनादिवत्तपोमाहात्म्यशालिनां मुनीनामसाधुप्रयोगोऽपि नातीव बाधते । अम्मदादीन्प्रति तु स्मृति पुराणाद्यध्ययनविधिबलादेव तदन्तर्गततत्पाठो न बाधकः । तथाच स्वातन्त्र्येणेदृशं प्रयुञ्जाना अस्मदादयः प्रत्यवयन्यवेति नदीसंज्ञासुत्रे भाज्यकैयटयोरपि स्थितमिदम् । यद्वा, सखेत्याख्यातः सस्त्रिः, पतिरि. त्याख्यातः पतिः, तेन सखिना, पतिना । आख्यातण्यन्तात्कर्मणि "अच इ." (उ०सु०५८८) इत्यौणादिक इप्रत्ययः । लाक्षणिकत्वाच्चैतयोयिसंक्षा पयुदासे ग्रहणं नास्तीति दिक् । एतेन __ अर्जुनस्य सखा कृष्णः कृष्णस्य सखिरर्जुनः।। इत्यपि व्याख्यातम् । कथं "वचो वाचस्पतेरपि" इति माघः । न ह्ययं समासः, अलुग्विधायकादर्शनादिति । सत्यम् , "तत्पुरुषे कृति" (अष्टा मू०६-३-१४) इति बहुलग्रहणादलुक् । एतेन दिवस्पतिवास्तो पती व्याख्यातौ । “षष्ठयाः पति'(अष्टा०सू०१-४-८)इत्यादिना सत्वम् । ये तु तत्र छन्दसीत्यनुवर्तयन्ति "श्रियः पतिः" (शि०१-१) इत्यादिसि. द्धये तन्मते पारस्करादित्वात्सुट् । केचित्तु “द्यावापृथिवीशुनासीरमरु स्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छच" (अष्टासु०४-२-३२) इति सा. मान्यापेक्षशापकात् षष्ठया अलुक् । कस्कादित्वात्सत्वम् । इणः परस्य तु षत्वमित्याहुः।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy