________________
विधिशेषप्रकरणे अङ्गसञ्ज्ञाप्रकरणम्
१०७
पदकारास्तु वाचस्पतिं विश्वकर्माणम्, वास्तोष्पते प्रतीत्यादौ वृ· थक् पदमधीयते ।
षष्ठीयुक्तश्छन्दसि वा (अष्टा०सु०१-४-९) । षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् । इह योगो विभज्यते । षष्ठयुक्तश्छन्दसीति । ततो वा । छन्दसीत्येव । सर्वे वि. धयश्छन्दसि विकल्पयन्ते इत्यर्थः । " बहुलञ्छन्दसि " इत्यादिकस्त्वस्यैव प्रपञ्चः ।
OT:
ह्रस्वं लघु (अष्टा०सू०१-४-१०) । हस्वं लघुसंज्ञं स्यात् । लघूपधगु· :- चेतति । न च हस्वप्रदेशेष्वपि लघुसंज्ञयैव व्यवहारः सुकरः 'सर्पिः ष्ट्वम्' इत्यादी "ह्रस्वात्तादौ तद्धिते" (अष्टा०सु०८-३-१०२ ) इति त्वासिद्धिप्रसङ्गात् । गुरुसंज्ञया तत्र लघुलज्ञाया बाधात् । तस्मादेकसंज्ञाधिकाराद्बहिर्हस्वसंज्ञाप्रणयनं सम्यगेव कृतम् । यद्येवन्तर्हि दीर्घप्लुतसंज्ञायाः समावेशमाशङ्कय एकसंज्ञाधिकारेऽयं योगः करिष्यते इति भाग्यं विरुध्यते, गुरुसंज्ञाया लघुसंज्ञाया इव गुरुलघुसंज्ञाभ्यां ह्रस्व सं शाया बाधप्रसङ्गात् । न च निरवकाशता, लघु संज्ञाप्रवृत्त्युपायतामात्रेण सार्थक्यात् । यथा पदं सद्धं भवतीति व्याख्यायां पदसंज्ञायाः । सत्यम्, चकारादिना समावेशः कर्तव्य इत्याशयः । एतदपरितोषादेव वा तत्र पक्षान्तराण्युक्तानीति दिक् ।
संयोगे गुरु (अष्टा०सू०१-४-११) । इस्वं गुरुसंज्ञं स्यात्संयोगे परे । शिक्षा, भिक्षा । "गुरोश्च हलः” (अष्टा०सू०३-३-१०३) इत्यकारप्रत्ययः । दीर्घञ्च (अष्टा०सू०१-४-१२) । दीर्घ गुरुसंज्ञं स्यात् । ईहाञ्चक्रे ।
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (अष्टा सू०१-४-१३ । प्रत्ययो यस्माद्विहितस्तदादिशब्दः प्रत्यये परेऽङ्गसंशं स्यात् । रामेण । विधिरिति किम् ? स्त्री ईयती । न चेह वतुपः स्त्रीशब्दादविधानेऽपि स विधिरसत्येवेति वाच्यम्, सन्निधानबलेन यस्माद्यः प्रत्ययो विहितस्तस्मि न्त्सोऽङ्गमिति व्याख्यानात् । तदादि किम् ? वदामि, वदिष्यामि । " भ तो दीर्घो यात्रि'' (अष्टा०सु०७-३ - १०१) इति दीर्घः । न चायमारम्भसामदेव भविष्यतीति वाच्यम्, "यय गतौ" "चय गतौ (स्वा०आ० ४७८) आभ्यां यङ्लुकि यायामि, यायावः, यायामः, चाचामि, चाचावः, चाचामः इत्यादौ चरितार्थत्वात् । प्रत्यये किम् ! प्रत्ययविशिष्टस्य ततव्यधिकस्य वा मा भूत् । एवं हि 'ववश्व' इत्युरदत्वम्य परनिमित्तत्वं न लभ्यते । तथाच "अचः परस्मिन्" (अष्टा०सु०१-१-५७) इति स्थानिवत्वाभावाद्वकारस्य सम्प्रसारणप्रसङ्गः । न च प्रथमसूत्रेण स्थानिवद्भावः,