SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ३०८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे प्रथमालिके कितेाधिप्रतीकारे अपनयने नाशने निग्रहे च (का०वा०) । चिकित्सति वैद्यः। "क्षत्रियपरक्षेत्र चिकित्स्यः " (पा०सू०५-२-१२) इति सूत्रे वृत्तिप्रन्थः । क्षेत्रियाणि तृणानि सस्थार्थ क्षेत्रे जातानि चिकित्स्यानि अपनेयानि विनाशयितव्यानि वा । तथा क्षेत्रियः पार• दारिकः । परदाराः परक्षेत्र तत्र चिकित्स्या निग्रहीतव्यः । वि. पर्वः संशयेऽपि-विचिकित्सति मे मनः । “विचिकित्सा तु संशयः' (अ०को०१-५-४) इत्यमरः । अर्थान्तरे तु गोपयति । हेतुम. णिच् । तेजयति । संकेतयति। हेतुमण्णिच चुरादिणिज्वा । भूवादी चुरादौ चानयोः पाठादिति न्यासकारः। वस्तुतस्तु सर्वत्र चुरादिणिजे. व न तु हेतुमणिच् इत्यनुपदमेव स्फुटीकरिष्यामः । इह गुपितिजिभ्यां सन्नन्ताभ्यां कथं तडित्याशङ्कय अवयवे ह्यचरितालिङ्गं सामर्थ्यात्समु. दायस्य विशेषकमिति भाष्ये समार्थतम् । युकं चैतत् , भ्वादी अनुदा. चेत्सु गुप गोपने"तिज निशाने' (भ्वा०आ९९५,९९६) इत्यनयोः पाठात् । मैत्रेयस्तु तत्रैव 'गुप गोपनकुत्सनयोः इति पपाठ । एषां च नित्यं सन् । तथा च भाज्यम्-"नेतेभ्यः प्राक्सन आत्मनेपदं नापि परस्मैपदं पश्यामः" इति । एवं च 'गोपते' 'तेजते' इति स्वाम्युक्तः केवलात्तङः प्रयोगः प्रत्युक्तः । नन्वेवं गोपयति तेजयतीति णिजन्तेऽपि तमसङ्गः । सन्नन्ते तर्क प्रवर्त्य अनुदात्तत्वं चरितार्थमिति चेत् ? णिचि प्रवयंतां न तु सनीति विपरीतं कुतो न; इति चेत् ? ___अत्रोच्यते, भिन्नार्था धातवो मित्रा एव । एवं च निन्दाक्षमादौ यत्रार्थे सनिष्यते तदुपहिताः सानुबन्धा भ्वादयो भिन्ना एव, यत्र तु णिजिष्यते तत्राननुबन्धका पव चुरादौ बोध्याः। अवयवे कृतं लिङ्गमिति भाग्यस्यायमेवाशयः । स्पष्टं चेदं "पूर्ववत्सनः" (पा०स० १-३-६२) इति सूत्रे पदमार्याम् । एवञ्च भ्वादिभ्यो हेतुमणिजिति प्रागुकन्यासग्रन्थोऽसङ्गत एव । अत्राभरणकार:--गुपादिसूत्रे गुप्तिजकिन्मानित्युपक्रम्य गुपादि. वनुबन्धकरणमात्मनेपदार्थमिति भाष्ये वार्तिके चोकत्वात्कितिः प. रस्मैपदिषु पठितोऽप्यात्मनेपदी बोध्यः । न च गुपादिग्विति बहुवचनं वस्यमाणमान्बधाद्यपेक्षामिति वाच्यम् , भाष्ये विशिष्य कितेरप्युप. क्रमादित्याह । एतदनुसारी वर्धमानोऽपि "स्वाश्रयं कश्चिकित्सतु" इति खण्डनस्य व्याख्यावसरे "चिकित्सतामिति तु युक्तम्" इत्याह । माधवस्तु नैतन्मेने, अनेकमहामन्यविरुदत्वात् । तथाहि, धातुपाठे तावदयमुदात्तत्पठितः वृत्तिकारोऽपीह परस्मैपदमुदाजहार । कैयटोऽ.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy