________________
विधिशेषप्रकरणे कित्प्रकरणम् ।
विभज्यते । पूङः परा सेनिष्ठा किन्न स्यात् । ततः त्वा च सेटे किन्नेत्यनुवर्तते पूङ इति निवृत्तम् । एवं चैकं क्त्वाग्रहणं प्रत्याख्यातम् । योगविभागस्तु पूर्वमेकसत्रेण सह निर्मातव्यः ।
निष्ठाशीस्विदिमिदिश्विदिधृषः [अष्टा०स०१-२-१९] । एभ्यः परा सेनिष्ठाकिन्न स्यात् । शयितः, शयितवान् । अनुबन्धनिर्देशो यङ्लुङ. निवृत्त्यर्थः । शेश्यितः, शेश्यितवान् । “एरनेकाचः" (अष्टा स०६-४-२२) इति यण् । निविदा स्नेहनमोचनयोः (भ्वा० आ०७४४)। भ्वादिः । प्रस्वेदितः, प्रस्वेदितवान् । यस्तु "विदा गात्रप्रक्षरणे" (दि०प०११८८) इति दिवादिरभित् स नेह गृह्यते । मिद्भिः साहचर्यात् । "प्रिमिटा स्नेहने" (भ्वा०आ०७४३)। प्रमेदितः, प्रमेदितवान् । “निविदा स्नेहनमोचनयोः" दि०प०१२४५) इति दिवादि द्यते न तु "निविदा अव्यक्ते शब्दे' (भ्वा०प०९७८) इति भ्वादिरपि, मिदिना साहच. यादिति हरदत्तस्तच्चिन्त्यम् । भ्वादिष्वपि मिदेः पठ्य मानत्वात् । तस्मादविशेषादुभयोग्रहणं न्याय्यम् । प्रक्ष्वेदितः, प्रक्ष्वेदितवान् । प्रध. षितः प्रधर्षितवान् । सेट् किम् ? स्विन्नः, स्विनवोन् । “आदितश्त्र" (अष्टा०स०७-२-१६) इतीनिषेधः । “विभाषा भावादिकर्मणोः" इति पक्षेऽभ्यनुज्ञायते । स कित्त्वप्रतिषेधस्य विषयः ।
मृषस्तितिक्षायाम् [अष्टा०स०१-२-२०] । सेनिष्ठा किन्न स्यात् । मर्षितः, मर्षितवान् । क्षमायां किम् ? अपमृषितं बाक्यम् । अविस्पष्टमित्यर्थः । तितिक्षाग्रहणं झापकं भीमसेनादिकृतोर्थनिर्देश उदाहरणमात्र न तु परिसंख्येति। __उदुप्रधाद्भावादिकर्मणोरन्यतरस्याम् [अष्टा०स०१-२-२१] । उकारो. पधाद्धातोः परा भावादिकर्मणोविहिता सेण निष्ठा वा किन्न स्यात् । धुतितम्, द्योतितम् । मुदितं, मोदितं साधुना । प्रद्युतितः, प्रद्योतितः । प्रमुदितः, प्रमोदितस्साधुः । उदुपधात्किम् ? किटितम् , खिटितम् । भा वेत्यादि किम् ? रुचितङ्कार्षापणम् । सेट किम् ? क्रुष्टम् । "उदुपच्छिपः" इति भाष्यम् । शब्विकरणेभ्य एवेष्यत इत्यर्थः । नेह-"गुधपरिवेष्टने" (दि०प०११२०) दिवादिः । गुधितम् ।
पूङः क्त्वा च [अष्टा०स०१-२-२२] । पूङः परे सेटक्वानिष्ठे किती न स्तः। नित्योयं योगः विभाषयोर्मध्ये पाठात् । पवितः, पवितवान् , पवित्वा । "क्लिशः क्त्वानिष्ठयोः" (अष्टा०स०७-२-५०) “पूङश्च" (अष्टा० स०७-२-५१) इतीट् । “नक्त्वासेट" (अष्टा०स०१-२-१८) इति सिद्धे क्वाग्रहणं प्रागुक्तरीत्यायोगविभागेन तत्प्रत्याख्यानार्थम् । सत्ररीत्या