________________
विविशेषप्रकरणे विभत्यर्थप्रकरणम् ।
२३३
पर्यन्तविवक्षाया अयोगादिति वाच्यम्, नत्रो द्योतकताया उक्तत्वात् । आश्चात इह "दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्" (पा०स्०२३-३४) इति प्राप्तः । "भाराद्दूरसमीपयोः " (अ०को०३-३-२५) "ऋते कृशानोनं हि मन्त्रपूतम्” । अत्र ऋतेयोगे पाक्षिकी द्वितीयापीत्युकं प्राक् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन सम्प्रति देशकालवृत्तिनाऽपि योगे भवति । ग्रामात्पूर्वो देशः ! चैत्रात्पूर्वः फाल्गुनः । कथन्त र्हि पूर्व कायस्येति ? उच्यते, अवयववाचिभिर्योगे न भवति "तस्य परमाम्रेडितम् " ( पा०सु०-१-२) इति निर्देशात् । अञ्चूत्तरपदस्य दिक्शब्दत्वेऽपि " षष्ठ्यतसर्थप्रत्ययेन” ( पा०सु०२-३-३०) इत्येतद्वाधनार्थ पृथग्ग्रहणम् । प्राक् प्रत्यग्वा ग्रामात् । न च तेन सभ्यूङ त्यादौ पञ्चम्यर्थे तत्किन्न स्यादिति वाच्यम्, दिक्शब्दसाहचर्येण प्रा. गादीनामेव ग्रहणात् । आच्-दक्षिणा ग्रामात् उत्तरा वा । आदिदक्षिणादि उसराहि प्रामात् । "दक्षिणादाच्" (पा०सु०५-३-३६) । "आ. हि चं दूरे (पा०सू०५-३-३७) “उत्तराञ्च” (पा०सु०५ -३ - ३८) इत्याजाही ।
षष्ठ्यतसर्थप्रत्ययेन (पा०सु०२ - ३ - ३० ) । एतद्योगे षष्ठी स्यात् । दक्षिणतो ग्रामस्य । उत्तरतः । "दक्षिणोत्तराभ्यामतसुच्" (पा०सु०५-३२८) । एवं पुरः पुरस्तादुपर्युपरिष्टात् ।
पनपा द्वितीया (पा०सु०२ - ३ - ३१) | एनबन्तेन योगे द्वितीया स्यात् । षष्ठ्यपीष्यते । सा तु 'एनपा' इति योगं विभज्य साधनीया | दक्षिणेन ग्रामं ग्रामस्य वा । एवमुत्तरेण । "एनबन्यतरस्यामदुरेपञ्चम्याः " (पा०सू०५ -३ - ३५) इत्येनप् । कथन्तर्हि -
तत्रागारं धनपतिगृहा दुसरेणास्मदीयम् ।
"स्त्र्यधिकारात्परेण वासरूपविधिर्नावश्यं भवतीत्यादि" । एनपि परशब्दात्पाक्षिकः । यदा तद्विधौ "उत्तराधरदक्षिणात्" (पा०स्०५-३३४) इति नानुवर्तते । सत्यम्, अत एव चिन्त्यमेवेदमिति हरदत्तः । उत्तरेणेति तृतीयैकवचनान्तं तोरणेनेत्यनेन समानाधिकरणमित्यन्ये | ॲपरे तु धनपतिगृहानिति शसन्तं पठन्ति ।
पृथग्विनानानाभिस्तृतीयान्यतरस्याम् (पा०सु०२ - ३ - ३२) । अन्य तरस्यांग्रहणं समुच्चयार्थम्, निपातानामनेकार्थत्वात् । मण्डूकप्लुत्या पञ्चम्यनुवर्तते । एभिर्योगे तृतीयापञ्चम्यौ स्तः । वृत्तिकारस्त्वाह"पृथग्विनानानाभिः" इति योगविभागाद् द्वितीयापीष्यत इति । पृथग्रा मेण रामाद्रामं वा । एवं विना नाना । "हिरुङ् नाना च वर्जने " (अ०को ० ३-४-३) इत्यमरः । " नानानारीर्निष्फला लोकयात्रो" । इति प्रयोगः ।