________________
शब्दकौस्तुभ प्रथमाध्याय द्वितीयपादे प्रथमान्हिके
२८
यथा नो अदितिः करत् ।
प्रकारादिद्विरुक्तौ परस्यान्त उदात्तः [फि०सु०८६ ] | पटुपटुः । शेषं सर्वमनुदात्तम् [ फि०सू०८७] । शेषं नित्यादिद्विरुक्तस्य परमित्यर्थः । प्रप्रायम् । दिवे दिवे ।
॥ इति शान्तनवाचार्यप्रणीतेषु फिट्सूत्रेषु तुरीयः पादः ॥ प्रासङ्गिकं समाप्य प्रकृतमनुसरामः
अपृक्त एकाल् प्रत्ययः (अष्टा०सु०१-२-४१) । एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात् । संज्ञाप्रदेशा "वेरपृक्तस्य' (अष्टा०सू०६-१-६७) इत्यादयः । एकेति व्यर्थम् । 'निपात एकाच्' ( अटा० १-१-१४) इत्ये कग्रहणेन “वर्णग्रहणं जातिग्रहणम्" इति ज्ञापनेऽपि अल्ग्रहणसामर्थ्यादेवेह व्यक्तिपरत्वात् । किञ्च सुत्रमेवेदं व्यर्थम् । अपृक्तप्रदेशे वल्ग्रहणेनैव सिद्धेः । न च सुरां सुनोतीति सुरासुत्र तमाचक्षाण सुरा इत्यत्र धात्ववयवस्य सस्य लोपः स्यादिति वाच्यम् । प्रत्ययाप्रत्ययपरिभाषया गतार्थत्वात् विभक्तिसाहचर्याच्च । यथासूत्रारम्भेऽपि तिसाहचर्या - त्सेरपि तिङ एव ग्रहणात् 'अभैत्सीत्' इति सिचो न भवति । "वेरपृतस्य” (अष्टा०सू०६-१-६७ ) इत्यत्र तु वकारेकारयोरन्यतरमनुनासि कमाश्रित्यापृक्तग्रहणं प्रत्याख्यास्यत एव ।
"
तत्पुरुषः समानाधिकरणः कर्मधारयः (आष्टा०सु०१-२-४२) । समानाधिकरणावयवस्तत्पुरुषः कर्मधारयसंज्ञः स्यात् । संज्ञाप्रदेशाः "पुं वत्कर्मधारय” (अष्टा०सु०६- ३ - ४२ ) इत्यादयः । समानाधिकरणे पदे आश्रयत्वेन स्तोऽस्येति अर्शआद्यच् । यदि तु "पूर्वकालेक" (अष्टा०स० २-१-४९) इति प्रकरणस्यान्तं कर्मधारयश्चेति कृत्वा तत्पुरुषानुवृत्त्या प र्याये लब्धे चकारात् " गतिश्च” (अष्टा०सू०१-४-६०) इत्यादाविव समुश्चयः साध्यते तदेदं सूत्रं शक्यमकर्तुम् ।
―
.
प्रथम निर्दिष्टं समास उपसर्जनम् (अष्टा०सू०१-२-४३) । समासविधायकं शास्त्रं समासः, तादर्थ्यात् । समस्यतेऽनेनेति व्युत्पत्त्या वा । तत्र प्रथमया यन्निर्द्दिश्यते तदुपसर्जनं स्यात् । द्वितीया श्रितादिभिःकृष्णश्रितः । महासंज्ञाकरणमन्वर्थसंज्ञार्थम् । लोके प्रधानमुपसर्जनमाहुः । तेन राज्ञः कुमार्या राजकुमार्या इत्यत्रोभयोः " षष्ठी" (अष्टा० सू०२-२-८) इति सूत्रे प्रथमा निर्दिष्टत्वाविशेषेऽपि राजैवोपसर्जनं न तु कुमारी । तेन कुमारीशब्दस्य न पूर्वनिपातो न वा "गोस्त्रियोः" (अष्टा० सू०१-२-४८) इति इस्वः । न च राज्ञेः कुमारीति प्रथमान्तेनैव विग्रह इति भ्रमितव्यम् । मूलाभावात् तथा च "तत्पुरुषे तुल्यार्थतृतीयासम मी "
·