SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३७४ शब्दकौस्तुभ तृतीयाध्यायप्रथमपादं चतुर्थान्हिके तस्माल्लावस्थायां (पा०सु०६-१-१७८) इत्येष स्वरो न सिद्धयेत् । लोप इति प्रथमः पक्षो दुष्ट एवेति स्थितम् । " न द्वितीयः एवं हि सति "विभाषा घ्राधेट्" (पा०सु०२-४-७८) इति सूत्रेणापि च्दयादेशानामेव लुक्, इति घेटश्वङोऽपि स स्यात् । तत्र यदा "विभाषा धेट्योः " (पा०सू०३-१-४९) इति बने विकल्पितत्वेन पक्षे सिचि कृते तस्य लुगलुकौ, तदा अ. धात्, अधासाम्, अधुः । अधासीत्, अवासिष्टाम् अधासिषुः इति सिद्धमिष्टम् । चङोऽपि लुगभावपक्षे अवधत्, अदधताम्, अदधन् । इति सिद्धम् । लुकपक्षे तु "न लुमता" (पा०सू०१-१-६३) इत्यङ्गाधिकारनिर्देश इति मते प्रत्ययलक्षणेन द्विर्वचने 'अदधात्' इत्यपि चतुर्थ रूपं स्यात् । "न लुमता" (पा०सू०१-१-६३) इति नाङ्गाधिकारनिर्देशः, किं त्वाङ्गमनाङ्गं वालुमता लुप्ते प्रत्यये परे पूर्वस्य प्राप्तं सर्वे निषिध्यत इति मुख्यपक्षे तु बड़े लुकि द्वित्वाप्रवृत्तौ सिज्लका तुल्यमेव रूप• मिति 'अधात्' इत्यादौ यद्यपि न दोषः, तथापि बहुवचने 'अघान् 'हस्यनिष्टमपि चतुर्थं रूपं स्यादेव, इष्यते तु त्रैशन्द्यम् 'मधुः, अधाखिषुः, अधन् इति । न च चो लुकि "आतः" (पा०सु०३-४-११०) इति जुम् भविष्यतीति वाच्यम्, तत्र 'सिचः' इत्यस्यानुवृत्तेः । अन्यथा ता नियमार्थताऽनुपपत्तौ 'अभूवन्' इत्यत्र प्रत्ययलक्षणेन "सिजभ्यस्त" (पा०सु०३ -४ -१०९) इति जुस्प्रसङ्गात् । ननु "ब्ल्यभ्यस्तविदिभ्या" इति वक्ष्यामि । एवञ्च चङ्लुक्यपि च्लेः परत्वाज्जुस् भविष्यति । "आवः” (पा०सु०३-४ -११०) इति सुनेऽपि लिग्रहणानुवृत्यैव बिय मात् 'अभूवन्' इत्यत्र जुस् न भविष्यति । 'मा हि गाताम्' इत्यादौ "आदि। सिखः” (पा०सू०६-१-१८७) इति स्वरोऽपि सिद्धः । एवञ्च कृतेष्वादेशेषु लुगिति पक्षो निर्बाध पवेति चेत् ? न, यदि "ब्ल्यस्वस्त" इति ब्रूने सर्दि फ्साङ्चङ्क्षु दोषाप्रत्तेः। अधुक्षन्, अवोचन्, अश्धन्, अत्रापि हि जुस् प्राप्नोति । तस्मात्सिजभ्यस्तेत्येव वक्तव्यम् । "आतः” ( पा०सु०३-४११०) इत्यत्र च सिग्रहणमनुवर्त्तनीयम् । एवञ्च बङ्लुकि बहुवचने 'अधान्' इति प्राप्नोतीति दोषः स्थित एव । तस्मात् "मातिस्था" (पा० : ०१-४-७७ ) इत्यत्र सिच इत्येव वक्तव्यम् । ततश्च च्लिपक्षे ऽपि फिलचले. हैसित त्रयाणां ग्रहणं तुल्यमेवेति स्थितम् । प्रत्युत कलेरकरणे महल्लाघवम् | "मन्त्रे घस" (पा०सु०२-४-८१) इत्यादिसूत्रे हि अरु एष प्रह णं कर्तव्यम् । सिच् तु "गातिस्था" (पा०सू०२-४-७७ ) इति सुत्रादनु वर्त्यः । धेटो जनेश्च चत्रिणो वैकल्पिकों, तत्र यानि लगुदाहरणानि
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy