________________
शब्दकौस्तुभद्वितीयाध्याय प्रथमपादे द्वितीयान्हिके
पात्रे समितादयश्च (अष्टा०सू०२-१-४८ ) । एते निपात्यन्ते क्षेपे । येचात्र कान्तास्तेषां पूर्वेण सिद्धे पुनः पाठो युक्तारोहा। दित्वसिद्ध्यर्थः । युक्तारोह्यादिषु हि पात्रेसमितादयश्चेति पठ्यते । पात्रेसमिताः । भोज नसमय एव सङ्गता इत्यर्थः । पात्रेबहुलाः । भोजने एव सङ्घीभवन्ति म कार्ये इत्यर्थः । उदुम्बरमशकः । योऽल्पे तृप्तः नास्मात्परमस्तीति मन्यते अदृष्टविस्तारत्वात् स एवमुच्यते । उदुम्बरकृमिः । कूपकच्छपः । कूपमण्डूकः । कुम्भमण्डूकः । उदपानमण्डूकः। नगरकाकः । मातरिपुरुषः । पिण्डीशुरः । पिण्डीओदनपिण्डः । तत्रैव शूरो नान्यत्रेत्यर्थः । गेहेशूरः । गेहेनदीं । गेद्देछेडी । गेद्देविजिती । गेहेव्याडः । गेहेधृष्टः । गर्भेतृप्तः । आख निकबकः । आखनिको जलस्रोतः खातं तस्मिन् बक इव यत्किञ्चिदात्मीये आखनिके लमते तद्भक्षयति तथाऽन्येपीत्यर्थः । गोष्ठेशूरः । गोष्ठेविजिती । गोठेछेडी । गोष्ठेपटुः । गोष्ठेपण्डितः । गोष्ठेप्रगल्भः । कर्णेटिरिटेरा | कर्णेचुरुचुरा । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेन 'परमाः पात्रे समिताः' इति वाक्यमेव भवति न तु " सन्महत्" (अष्ठा० सू०२-१-६१) इत्यादिना समासान्तरम् ।
I
I
६८०
पूर्वकालैक सर्वजरत्पुराणनव केवलास्समानाधिकरणेन (अष्टा०सू०२१-४२) । एते सप्त सुबन्ताः समानाधिकरणेन सुपा सह समस्यते स तत्पुरुषः । पूर्वकालइत्यर्थनिर्देशः । अन्येषां षण्णां स्वरूपग्रहणम् । पूर्वकालोऽपरकालेन समस्यते, पूर्वत्वस्य ससम्बन्धित्वात् । "विशेषणं विशेष्येव” (अष्टा०सु०२-१-५७) इति सिद्धे पूर्वकालादीनां पूर्वनिपात नियमार्थे वचनम् । एकशब्दस्य तु "दिक्संख्ये संज्ञायाम्" (अष्टा०सू० २-१-५०) इति नियमात्प्राप्त्यर्थमेव । पूर्व स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । अत्र क्रियाशब्दत्वात्पाचकपाठकवत्पर्यायः प्राप्तः । एकशाही | शाटशब्दाखातिलक्षणो ङीष् । सर्वयाज्ञिकाः। जरतार्किकाः । पुराणमीमां सकाः।नषपाठकाः । केवलत्रैयाकरणाः । समानाधिकरणे किम् ? एकस्याः शौक्ल्यम् । षष्ठीसमासस्त्विह न भवति "गुणेन न" इति निषेधात् ।
दिक्संख्ये संज्ञायाम् (अष्टा०सु०२-१-५० ) । समानाधिकरणेनेत्या पादपरिसमाप्तेरनुवर्त्तते । “विशेषणं विशेष्येण” (अष्टा०सू०२-१-५७) इति सिद्धे नियमार्थमिदम् । दिक्संख्यसंज्ञायामेव समानाधिकरणेन स. मस्येते नान्यत्र । पूर्वेषुकामशमी । पञ्चानः । सप्तर्षयः । नेह – उत्तरा वृक्षा५ पञ्च ब्राह्मणाः । पूर्वसूत्रमित्यादौ त्वदिग्वाचित्वात्समासः । इति श्रीशब्दकौस्तुमे द्वितीयस्याध्यायस्य प्रथमे पादे द्वितीयमान्दिकम् ।
I