SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ विधिशेषप्रकरणे लिङ्गानुशासनप्रकरणम् । २७३ योपघः ॥ समय: हयः । किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके । स्पष्टम् । गोमयकषायमलयान्षयाव्ययानि नपुंसके च ॥ गोमयः । गोमयम् । रोपधः ।। क्षुरः । अङ्कुरः। द्वाराप्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रच्छि(१)द्रनीरतीरदूरकृच्छ्ररन्ध्रा. श्रश्वभ्रभा(२)रगाररविीचकेयूरकेदारोदाराजस्रशरीरकन्दरमा न्दारपक्षराजरजठराजिरवैरचामरपुष्करगहरकुहरकुटीरकुलीरचश्वरः काश्मीरनीराम्बरशिशिरतन्त्रयानक्षत्रक्षेत्रमित्रकलत्रचित्रमूत्रसूत्रवकनेत्रगोत्राङ्गुलिनमलप्रशस्त्रशास्त्रवस्त्रपत्रपात्रच्छत्राणि नपुंसके ॥ इदं द्वारमित्यादि। शुक्रमदेवतायाम् ॥ इदं शुकं रेतः। चक्रवज्रान्धकारसारावारपारक्षीरतोमरशुमारभृङ्गारमन्दारोशीर. तिमिरशिशिराणि नपुंसके च ॥ चात्पुंसि । चक्रः । चक्रमित्यादि । षोपधः ॥ वृषः । वृक्षः। शिरीषीषाम्बरीषपीयूषपुरीषकिल्विषकल्माषाणि नपुंसके। यूषकरीषमिषविषवर्षाणि नपुंसके च ॥ चात्पुंसि । अयं यूषः । इदं यूपमित्यादि। सोपघः ॥ वत्सः । वायसः । महानसः । पनसविसबुससाहसानि नपुंसके । चमसांसरसनिर्यासोपवासकासवासभा(३)सकासकांसमोसानि नपुंसके च ॥ इदं चमसम् । अयं चमस इत्यादि । कसं चाप्राणिनि ॥ कंसोऽस्त्री पानभाजनम् । प्राणिनि तु कंसो नाम कश्चिद्राजा। रश्मिदिवसाभिधानानि ॥ एतानि पुंसि स्युः । रश्मिर्मयूखः । दिवसो घस्रः। दीधितिः स्त्रियाम् ॥ पूर्वस्यापवादः। दिनाहनी नपुंसके ।। अयमप्यपवादः । मानाभिधानानि ॥ एतानि पुंसि स्युः। कुडवः । प्रस्थः । द्रोणाढको नपुंसके च ॥ इदं द्रोणम् । अयं द्रोणः। खारीमानिके स्त्रियाम् ॥ इयं खारी। इयं मानिका । दाराक्षतलाजासूनां बहुत्वं च ॥ इमे दाराः ॥ (१) 'च्छिद्र' इति नास्ति कौमुद्याम् । (२) 'भोर' इति कौमुद्याम (३) 'मास' इति कौमुद्याम् । . शब्द. द्वितीय. 18.
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy