SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २७२ शब्दकौस्तुभद्वितीयाध्यायचतुर्थपादे प्रथमान्हिके किरीटमुकुटललाटवटवि(१)टशृङ्गाटकराटलोष्टानि नपुंसके । कि. रीटमित्यादि। कुटकूटकपटकवाटकर्पटनटनिकटकीट कटानि नपुंसके च ॥ चात्पुं. सि । कुटः कुटमित्यादि । णोपधः ॥ पोपघोऽकारान्तः पुंसि स्यात् । गुणः । गणः । पाषाणः । ऋणलवणपर्णतोरणरणोष्णानि नपुंसके ॥ पूर्वसूत्रापवादः ॥ कार्षापणस्वर्णसुवर्णव्रणचरणवृषणविषाणचूर्णतृणानि नपुसके च ॥ चात्पुंसि ॥ __ थोपधः ॥ रथः । प्रस्थः॥ काष्ठपृष्ठरि (२)क्योक्थानि नपुंसके । इदं काष्ठमित्यादि । काष्ठा दिगर्या स्त्रियाम् ॥ इमाः काष्ठाः । तीर्थप्रोथयूथगाथानि नपुंसके च ॥ चात्पुंसि । अयं तीर्थः इदं तीर्थम् । नोपधः ॥ अदन्तः पुंसि । इनः । फनः । जघनाजिनतुहिनकाननवनवृजिनविपिनबेतनशासनसोपानमिथुनश्मशानरत्ननिम्नचिन्हानि नपुंसके ॥ पूर्वस्यापवादः । मानयानाभिधान(३)नलिनोद्यानशयनासनस्थानचन्दनालानसमा. नभवनवसनसम्भावनविभावनविमानानि नपुंसके च ॥ चात्पुंसि । अयं मानः । इदं मानम् । पोपधः ॥ अदन्तः पुंसि । यूपः । दीपः । सर्पः ॥ पापरूपोडपतल्पशिल्पपुष्पशष्पसमीपान्तरीपाणि नपुंसके ॥ इदं - पापमित्यादि। शूर्पकुतपकुणपद्वीपविटणानि नपुंसके च ॥ अयं शूर्पः।इदं शूर्पमित्यादि । भोपधः ॥ स्तम्भः। कुम्भः। तलभं नपुंसकम् ॥ पूर्वस्यापवादः । जृम्भं नपुंसके च ॥ जृम्मम् । जृम्भः । मोपधः ॥ सोमः । भीमः। रुक्मसिध्म(४)युग्मेध्मगुल्माध्यात्मकुकुमानि नपुंसके ॥ इदं रुक्ममित्यादि। __ सडासदाडिमकुसुमाश्रममक्षौमहोमोद्दामानि नपुंसके च : चात्पुंसि । अयं संग्रामः । इदं संग्रामम् । (१) 'वाट' इति कौमुद्याम् । (२) 'सिक्य' इति कौमुद्याम् । (३) 'नलिनलिनोद्यान'इति कौमुद्याम् । (४) 'युध्म इति कौमुद्याम् ।
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy