SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२८ शब्दकौस्तुभद्वितीयाध्यायतृतीयपादे प्रथमान्हिके संज्ञापक्षे उपसर्गवद्द्योतकतया कृञ एव प्रणतिरर्थः । तत्कर्मणि द्वितया नमस्यति देवानीतवत् । अगतित्वे तु करोतिक्रियाकर्मभावापनं विशेष्यभूतं प्रणाममाचष्ट इति देवादावकर्मणि नमः स्वस्तीति चतु वेति । अत्रेदं वक्तव्यम्-उक्तरीत्या चतुर्थीसमर्थनेऽपि नमसो गतिसंज्ञाभावान्नमस्पुरसोर्गत्योरिति सत्वं न स्यात् । तथा च प्रयोग निर्वाहस्तदवस्थः। तस्मात् क्रियार्थोपपदस्यचेति चतुर्थी बोध्या, देवान् प्रसादयितुमि स्यर्थात् । वर्धमानस्तु - "श्राद्धाय निगल्भत" इतिवत्क्रियाग्रहणं कर्तव्यमिति चतुर्थीत्याह । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलं मल्लो मल्लाय । अलमिति पर्याप्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः समर्थः शक इत्यादि । कथन्तर्हि - "प्रभुर्बुभूषुर्भुवनत्रयस्य' (मा.का. १-४९) इति माघः । उच्यते, पर्याप्त्यर्थस्यैवालमो ग्रहणं, न तु 'अलं रोदनेन इत्यादौ वारणार्थस्यापीतिव्याख्यानान्तरं माध्ये स्थितम् । एवञ्च उपा. या भेदात्प्रस्वादियोगे षष्ठ्यपि साधुः । अत एत्र सूत्रकारो द्वेधा निरदिक्षत् । तस्मै प्रभवति सन्तापादिभ्यः (पा०सु०५ - १ - १०१) सएषांप्रामणीः (पा०सु०५-२-७८) इति च । तथाच भट्टिः- “नाप्रोथदस्य कश्चन पुत्रोधा न कश्चन" इति । प्रो पर्याप्तौ (स्वा० उ०८६७ ) इत्यस्य रूपम् ।'अलं रोदनेन'' इत्यत्र तु करणे तृतीया, रोदनेन न किंचित्साध्यमित्यर्थावगमात् । वत्र डिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्वित्रज्ञायामपि षष्ठीं बाधित्व चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् । अन्यथा स्वस्तियोगे चतुर्थ्या अवकाशः । स्वस्ति जाल्मायास्तीति । तत्वकथने कुरालार्यैराशिषीत्यस्या वकाशः स्वस्तिभिन्नाः कुशलार्थाः । उभयप्रसङ्गे परत्वात् पक्षे षष्ठी स्यात् मन्यकर्मण्यनादरे विभाषाऽप्राणिषु (पा० सू० २-३ - १७) । प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्थातिरस्कारे । न त्वां तृणं मन्ये तृणाय वो । मन्यतिग्रहणं किम् १ न त्वां तृणं चिन्तयामि । इयना निर्देशाश्नेह-न त्वां तृणं मन्वे । मनु अत्रबोधने (त०आ०१४७० ) । तनादेरुः । न च मन्येतियंका निर्देशः किं नस्यादिति वाच्यम्, अनभिहिते इत्यधिकारात् । न हि यका योगे अनभिहितं कर्म सम्भवति । इयन्नपि दैवादिकधातूप लक्षणमात्रं न तु स्वयं विवक्षितः । तेन— 1 I तृणाय मत्वा रघुनन्दनोऽपि बाणेन रक्षः प्रधनान्निरास्थत् । इति भट्टिप्रयोगः सङ्गच्छते । अनादरश्चात्र नादरामावमात्रमापे तु तिरस्कारः, कुत्लेति यावत् । अधर्मानृतादिवन्नञः प्रतिपक्षवाचि
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy