________________
शब्दकौस्तुभप्रथमाध्यायतृतीयपादे द्वितीयान्हिके
६६
(का०वा० ) इत्यादेर्वैयर्थ्यापत्तेश्चेति दिक् ।
परिवयवेभ्यः क्रियः (अष्टा०सु०१-३-१८) । एभ्यः क्रीणातेरात्मनेपदं स्यात् । ञित्वादेव सिद्धे सत्यकर्त्रभिप्रायार्थीयमारम्भः । परिक्रीणीते, विक्रीणीते, अवक्रीणीते । पर्यादय उपसर्गा इह गृह्यन्ते । तन्त्रावृत्याद्याश्रयणेन क्रीणातेर्ये पर्यादयस्तेभ्यः क्रिय इति व्याख्यानात् । परस्पर साहचर्याद्वा । तेनेह न - 'विक्रीणासि' इति । अत्र त्वेकदेशविकृतस्यानन्यत्वात्प्राप्नोति । न चायं विभक्तिविशिष्टस्य विरित्यस्य विकारो न तु विशब्दस्येत्युत्तर सूत्रस्थ कैयटवाक्याद् भ्रमितव्यम् विभक्तेलपात् । प्रकृतिभागस्यैव विकारात् । कैयटस्याप्ययमपरितोषोस्त्येव । अत एव वक्ष्यति - "पक्षिवाचिनो विशब्दस्य सम्भवे तु साहचर्यादुपसर्गग्रदणं व्याख्येयम्" इति ।
विपराभ्याञ्जे ः (अष्टा०सू०१-३-१९) । स्पष्टोर्थः । विजयते, पराजयते । प्राग्वदुपसर्गग्रहानेह - विजयति, पराजयति, सेना । परा उत्कृष्टा । ननु 'जेः' इति कथं निर्देशः । " प्रकृतिवदनुकरणम्" इत्यतिदेशेन धातुतया इयङि 'जियः' इति वक्तव्यत्वात् । न च 'नियः' क्रियः' इति दीर्घे सा वकाशमियडं परत्वाद् "घेडिंति" (अष्टा०सु७ - ३ - १११) इति गुणो बाधत इति युक्तम् । हस्त्रेष्वपि पूर्वविप्रतिषेधेनेयङ् इष्टत्वात् । अत एव 'क्षियः' इति निर्दिश्यते । किञ्च "क्षियो दीर्घात्" (अष्टा०सू०८-२-४६) इति सूत्रे दीर्घग्रहणमपीह शापकम् । अन्यथा "क्षियः" इति निर्देशांदव दीर्घस्य निर्णये किं तेन ? उच्यत-अनित्योयमतिदेशः । अतो नेयङ् । ब नित्यतायां प्रमाणन्तु "ऋलक्" (मा०सु०२) सूत्र एवोक्तम् । अविवक्षि तार्थरूपमात्रानुकरणाद्वा । यत्तु "पराजेरसोढः " (अष्टा०सू०१-४-२६) इति सूत्रे इयङः परत्वाद् " घेः " (अष्टा०सु०७-३-१११) इति गुण इति हरदत्तनोक्तम्, तच्चिन्त्यम् । “क्षियो दीर्घात् " (अष्टा०सु०८-२-४६) इत्येतत्सूत्रस्थभाष्यकै यटवृत्तिग्रन्यैस्तत्र त्ये हत्य स्वग्रन्थाभ्याञ्च सह वि रोधात् ।
आङो दोनास्यविहरणे (अष्टा०सू०१-३-२० ) । आपूर्वाद्ददातेर्मुख विकसनादन्यत्रार्थे वर्त्तमानादात्मनेपदं स्यात् । विद्यामादते । अनास्थविहरणे किम् ? मुखं 'व्याददाति' । आस्यग्रहणमविवक्षितम् । "उ पेयिवाननाश्वान् " (अष्टा०सु०३-२-१०९) इत्यत्रोपशब्दवत् । तेनेद्दानि न- 'विपादिकां व्याददाति' । पादस्फोटो विपादिका । नदीकूलं व्याददाति । पराङ्गकर्मकादनास्यइति निषेधो नेष्यते । तथा च वार्त्तिकमस्वाङ्गकर्मकाचेति (का०वा० ) स्वमङ्गमिह स्वाङ्गं न तु " मद्रवं मूर्त्तिम
•