SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११० शब्द कौस्तुभप्रथमाध्याय चतुर्थपादे द्वितीयान्हिके- (अष्टा०सू० ८-३-४२) इति पुंवद्भावं बाधित्वा पुंवद्भावाद् हस्वत्वं "खि द् घादिकेषु" इति -हस्वः स्यात् पद्विततिवत् । ब्राह्मणशब्दस्य ह. स्वो न स्यात् । कथं तर्हि प्रातिपदिकसंज्ञायां कृत्तद्धितशब्दाभ्यां तदन्तग्रहणमिति चेत् ? अत्र भाष्यकारा:-: :- अर्धवद्ग्रहणं तत्रानुवर्तते । तत्सामर्थ्यात्तदन्तग्रहणमिति । स्यादेतत्; यद्यर्थवत्ता पारमार्थिकी विवक्ष्यते, तर्हि सा पदस्य वाक्यस्य वाऽस्नि, न तु कृत्तद्धितान्तस्य । तथाचार्थवत्सुत्रे वार्त्तिकम् - "अर्थवता नोपपद्यते केवलेनावचनादिति । अथ सिद्धं त्वन्वयव्यतिरे. काभ्यामिति” । तत्रत्योत्तरवार्तिकानुरोधेन प्रक्रियादशायां कल्पिता साविवक्ष्यते, तर्हि कृतद्धितयोरपि सास्तीति चेत ? सत्यम्, अत एवार्थवग्रहणसामर्थ्यमुक्तम् । प्रत्ययान्तेन त्वेकार्थीभूतेन प्रतीयमानोSर्थ इह गृह्यते, तस्य लौकिकार्थे प्रति प्रत्यासन्नतरत्त्रात् । मतुपः प्रा. शस्यपरतया तस्यैव ग्रहणात् । अत एव च तदुपादानं सार्थकम् | पूर्वसूत्रे ऽधातुरिति पर्युदासबलेनापि तल्लाभसम्भवात् । नः कये (अष्टा०सू० १-४-१५) । क्यचि क्यांड क्यषि च नान्तमेव पदसंज्ञं स्यात् । क्यच् - राजीयति । क्यङ् - राजायते । क्यष्- चर्मायति, चर्मायते । सामान्यग्रहणार्थे कवषः ककार इति वदतो वृत्तिका. रस्य मतेनेदमुदाहृतम् । भाध्ये तु कयषः ककारस्य प्रत्याख्यानात्कयच् - क्यङोरेवेह ग्रहणम् । चर्मायतीति रूपं चासाधु, क्यङन्ततया नित्यमा• त्मनेपदाभ्युपगमात् । तथा च वक्ष्यते - "लोहितडाज्भ्यः क्यष्वचनं भृशादिष्वितराणि" (का०वा० ) इति । एतच्च तृतीयएव स्फुटीकरिव्यामः । नान्तमेवेति किम् ? वाच्यति, सुव्यति, तपस्यति । ननु क्य एव नान्तमिति विपरीतो नियमः कुतो नेति चेत ? न. . ङिसम्बुद्ध्योरिति शापकात् नलोपः प्रातिपदिकान्तस्येति ज्ञापकाच्च । अन्यथा हि "नलोपः क्ये" इत्येव सुत्रयेत् । 6 सिति च (अष्टा०सू०१-४-१६) । सिति प्रत्यये परे पूर्व पदसं स्थात् । भसंज्ञापवादः । भवतष्ठक्छसौ" (अष्टा०सु०४ - २ - ११५) भवदीयः "ऋतोरण" (अष्टा०सू०५-१-१०५) "छन्दसि घम्” (अष्टा०सू०५१ - १०६) ऋतुः प्राप्तोऽस्य ऋत्वियः । स्वादिष्वसर्वनामस्थाने (अष्टा०सू०१-४-१७) । कप्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वे पदसंज्ञं स्यात् । राजभ्यां राजभिः । राजत्वं, राजता । सर्वनामस्थाने तु राजानौ, राजानः । भुवद्वस्यो, धारयद्वद्भ्यः इति पदसंज्ञाया उपसङ्ख्यानम् । "तसौ मत्वर्थे" (अष्टा०सू०
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy